________________
११८
कातन्त्रव्याकरणम्
नित्यं स्त्रीत्वाविवक्षैव । एवं कुक्कुट्यामपि कुक्कुटत्वमस्तीति कुक्कुटी च कुक्कुटश्च कुक्कुटौ । किं पुंवाचकस्य स्त्रीवाचकेन सह वचने पुंवद्भावेन ।
तथा पिता च माता च पितरौ, पितेति जनकत्वयोगाद् यथा पुरुषस्याभिधानं तथा मातुरपि, स्त्रीपुंभेदस्याविवक्षायामिति । किं 'पिता मात्रा सह वचनेऽवशिष्यते' इत्यनेन । भेदविवक्षायां तु मातापितरौ । तथा भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ। एकगर्भोषितत्वं भ्रातृव्यपदेशनिबन्धनं तत् स्वसर्यप्यस्ति । जन्यत्वं पुत्रव्यपदेशनिबन्धनं तद् दुहितर्यप्यस्ति । नित्यं लोके स्त्रीत्वस्याविवक्षेति । किं 'भ्रातृपुत्रौ स्वसूदुहितृभ्याम्' इत्यनेन । तथा पूर्ववत् श्वश्रूश्च श्वशुरश्च श्वशुरौ, भेदे तु श्वश्रूश्वशुराविति च । श्वशुर इति तदपत्योद्वहनसंबन्धनिबन्धनो व्यपदेशोऽपि श्वश्वां स्थित एव किं श्वशुरः श्वश्वा' इत्यनेनेति । नपुंसकस्य सर्वलिङ्गसामान्यरूपत्वात् नपुंसकानपुंसकाभिधानेन नपुंसकस्यैव प्रयोगः । शुक्लं च शुक्ला च शुक्लश्चैतानीमानि शुक्लानि । अभेदविवक्षायां तु तदिदं शुक्लम् इति । किं "नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्" (अ० १।२।६९) इत्यनेन । त्यदादीनां सामान्यवचनत्वाद् अन्यार्थाभिधानेनापि प्रयोगः । स च देवदत्तश्च तौ, यश्च देवदत्तश्च यौ । किं 'त्यदादीनां सर्वैर्नित्यम्' इत्यनेनेति ।
ग्राम्यपशुसंघेष्वतरुणेषु स्त्र्यभिधाने स्त्रीलिङ्गस्यैव प्रयोगःसिद्धः, अपनीतपुंस्कत्वाद् गावः इमाः, अजा इमाः। वाहाय विक्रयाय चोत्सारितपुंस्कत्वात् तदा स्त्रिय एवावशिष्यन्ते, न चातरुणेष्विति वर्जनं युक्तम् । को नामाईति बालकान् पुंसोऽपनेतुम्, वाहाययोग्यत्वात् । प्रायोवृत्तयश्च निर्देशा भवन्ति । तद् यथा 'ब्राह्मणग्रामः, शालवनम्' इति तत्रान्तः पञ्चकारवो य (ध) वादयश्च संभवन्ति । तथेहापि स्त्रीगवीनां बाहुल्यात् कथञ्चित् पुंसोऽनुसारितत्वेऽपि स्त्रीलिङ्गं प्रयुज्यत इति ।।३०२ ।
[वि० प०]
प्रथमाः। तस्मात् परा विभक्तयः” (२।१।२) इति प्रथमा विहितैव केवलम् इहार्थः कथ्यते । अव्यतिरिक्तेत्यादि। विशेषणातिरिक्तोऽधिको व्यतिरिक्तः, न व्यतिरिक्तोऽव्यतिरिक्तोऽनधिक इत्यर्थः । अथवा व्यतिरेको व्यतिरिक्तम्, नपुंसके भावे क्तः। न विद्यते व्यतिरक्तं व्यतिरेको भेदो यस्य सोऽव्यतिरिक्तः, अभिन्न इत्यर्थः। स चासौ लिङ्गार्थश्चेति अव्यतिरिक्तलिङ्गार्थस्तस्य वचनं तस्मिन्नित्यर्थः । अयं पुनरपपाठ