________________
११७
नामचतुष्टयाभ्याये चतुर्षः कारकपादः तभेदापेक्षया बहुवचनम्, नात्र साध्यक्षतिरिति । एको व्रीहिः सम्पन्नः सुभिक्षं करोतीति एकशब्दसान्निध्यादेकवचनमेव । तथा वृक्षत्वमिति वृक्षशब्दस्य प्रवृत्तिनिमित्तत्वादेकवचनमेव ।
अस्मद एकार्थस्य व्यर्थस्य च पक्षे बहुवचनं सिद्धमित्याह - वयमित्यादि । बाह्या रूपादयः, आध्यात्मिकाश्चक्षुरादयस्तदपेक्षया बहुवचनम् । यथा गुरुषु बहुवचनं वचनमन्तरेणापि ‘परमदैवत्यानि, अधिदैवतानि' इत्यादिषु बहुवचनं तथैवेहापीत्यर्थः । अस्मदः सविशेषणस्य प्रतिषेध इति न सम्मतं परस्य ।गार्योऽहं ब्रवीमि, वटुरहं ब्रवीमि । 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः' इति । फल्गुनीप्रौष्ठपदयोः प्रत्येकं द्वितारकयोर्द्विवचनं सिद्धम् । कदा पूर्वे फल्गुन्यौ, कदा पूर्व प्रौष्ठपदे । यदा तत्सामीप्याच्चन्द्रोऽपि फल्गुनी, तदा चन्द्रमसा सह बहुत्वसंभवे बहुवचनम् । कदा पूर्वाः फल्गुन्यः, कदा पूर्वाः प्रोष्ठपदाः । नक्षत्रं तिष्यम् । एकतारको द्वितारकः पुनर्वसुश्च । तयोरितरेतरयोगे द्वन्द्वेऽपि न बहुवचनम्, नक्षत्रद्वित्वस्य विवक्षितत्वाद् द्विवचनमेव तिष्यपुनर्वसू इति । समाहारद्वन्द्वे त्वेकवचनम् - तिष्यपुनर्वस्विति । नक्षत्रविशेषवाचित्वान्नानयोर्जातिवचनत्वम् ।
तारकाणां भेदविवक्षा नैव लोके दृश्यते इति कुतोऽत्र बहुवचनमिति । प्रत्यर्थ शब्दनिवेशानैकेनानेकार्थाभिधानं स्यादिति स्वरूपाणां शब्दानामेकविभक्तावेकशेष उच्यते इत्ययुक्तम् । शब्दाश्चानन्ताः, अर्थाश्चानन्ताः, कथमेकशेषस्तस्मादेकोऽपि हि शब्दोऽनेकार्थस्याभिधायकः, स्वभावात् । यथा द्यावापृथिव्यो रोदसीशब्द इति । एक एव शब्दोऽनेकशक्तियोगादनेकार्थवाचकः इति दर्शनान्तरं विनापि अनेकशक्तियोगाद् रूपातिशय एव । शब्द एकोऽप्यनेकार्थवाचकः इत्यपरं दर्शनम् । तेन 'वृक्षौ, वृक्षाः' इति सिद्धमेव भिन्नजातीयानामप्यर्थानामेकेनाभिधानं भवति । यथा 'अक्षाः, पादाः, माषाः। किं पुनः सजातीयानां वृक्षादीनामिति । अक्षो बिभीतकः, शकटैकदेशः । पादश्चतुर्थो भागः, रश्मिः, प्राण्येकदेशश्च । माषो व्रीहिविशेषः, परिमाणविशेषः, मूर्खश्च । गर्गापत्यत्वं यथा गाग्र्ये तथा गाायणेऽप्यस्तीति गार्यश्च गाायणश्चोभौ गाग्र्यो । वात्स्यश्च वात्स्यायनश्च वात्स्याविति । पौत्राद्यपत्यप्रत्ययान्तस्य गुर्वायत्तप्रत्ययान्तेन सह वचने पौत्रादिगुर्वायत्तप्रत्ययमात्रकृते विशेषे पौत्रादिवाचकेन गुर्वायत्तस्याभिधानम् । सदैवाभेदविवक्षया लोके गार्यामपि गार्यत्वमस्तीति गार्गी च गार्यायणश्च गाग्यौं,