________________
११६
कातन्त्रव्याकरणम् ननु संख्यायाः कथम् एकवचनद्विवचनबहुवचनानि, उक्तार्थत्वात् । कश्चिद् आह - उक्तार्थानामपि प्रयोगो दृष्टः। यथा “द्वौ घटावानय' इति । तदयुक्तम् | नात्रोक्तार्थत्वम्, किन्तर्हि भेदकत्वम् । नच घटौ द्वावानयेति प्रयोगो दृश्यते । तस्माल्लिङ्गार्थकर्मकरणादिप्रतिपत्तये विभक्तयोऽसङ्करसंख्याः स्युरिति ।अन्य आह - उच्यतेऽनेनेति वचनं संख्या । लिङ्गं चार्थश्च वचनं चेति समाहार इत्ययुक्तमेव । लिङ्गार्यः सत्तेति भाष्यकारमतेऽपि,
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् ।
समवेतस्य च लिङ्गं संख्या कर्मादिकं चेति॥ सम्पूर्णेऽपि लिङ्गार्थे समाश्रीयमाणे निपातोपसर्गाणां प्रथमा न स्यादिति न चोदनीयम् । “अव्ययाच्च" (२।४।४) इत्यत्र दर्शितमेव । अथ केयं सत्ता, सा महासामान्यम् ? तदा तद्वाचिभ्यः सर्वनामभ्य एव प्रथमा स्यात्, न वृक्षादीनाम् .अर्थान्तरवृत्तित्वात् । अथ अव्यभिचारात् सत्ता अभिधेयेति धूमस्यापि पावको वाच्यः स्यात् । विनाग्निं धूमस्याभावात् । तथा अवयविद्रव्यस्यावयवा वाच्याः स्युः, आरब्धस्य विनारम्भकैरभावात् चक्षुरादयो रूपादीन् न व्यभिचरन्तीति तेऽपि तेषामभिधेयाः स्युरिति । अथ सिद्धता सत्ताशब्देनाख्यायते इत्ययुक्तम् । साध्यापेक्षत्वाद् वाक्यगम्योऽयमर्थः । तस्मादर्थापत्तिवाच्योऽयमर्थो न शब्दगम्यो गुडादिशब्दानां माधुर्यवदिति न चोद्यम्, प्रतीतिबलमेव यदा दर्शनं लिङ्गसंख्यायां चोदितमिति | प्रथमादयः शब्दाः स्यादीनां त्रिकत्रिकेष्वेव रूढाः, तस्माद् विभक्तिर्लिङ्गं वचनं च सुखप्रतिपत्त्यर्थमेव । एकमर्थमित्यादि । वक्तीति प्रत्येकमभिसंबध्यते । अर्थशब्देन संख्याभिधेया वस्तुनो लिङ्गवाच्यत्वात्।
एकमर्थं वक्तीति एकवचनम् । एवं द्विवचन बहुवचनम् | "कृत्ययुटोऽन्यत्रापि च" (४।५।९२) इति कर्तरि युट् । पयः पयो जरयतीत्यादिषु सत्यपि विभक्तिलुकि संख्याकदियो लिङ्गात् प्रतीयन्ते स्मृतिविषयानुसन्धिप्रत्ययात् । यथा 'भृगवः, वत्साः' इत्यत्रापत्यप्रत्ययलुक्यपि अपत्यप्रत्ययार्थ इति । पञ्चकपक्षे पुनरेकत्वाद्युच्यतेऽनेनेति करणे युट्, तदा विभक्तिर्योतिका सहायमन्तरेणापि नामसंख्याकर्मादीन् अभिदधात्येव । जातिरेकोऽर्थः । पक्षे बहुत्ववदिष्यते इत्याह - सम्पन्न इत्यादि । जातिशब्देन यवादीनां जातिरभिधीयते, द्रव्यमपि तत्र जातेरेकत्यादेकवचनम् । यदा तु द्रव्यं तदा बहुत्वाद् व्यक्तीनां