________________
११५
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० वृ०]
अव्यतिरिक्तलिङ्गार्थवचने प्रथमा विभक्तिर्भवति ।उच्चैः, नीचैः, वृक्षः, कुण्डम्, कुमारी । द्रोणः, खारी, आढकः, हस्तः, वितस्तिः, दीर्घम् । काष्ठम्, घृतम्, पलम् । एकः, द्वौ, बहवः । सर्वेऽप्यमी लिङ्गार्था अन्वयित्वाद् एकमर्थं द्वौ बहून् वा वक्तीत्यन्वर्थसंज्ञया एकस्मिन्नर्थे एकवचनम्, द्वयोर्दिवचनम्, बहुषु बहुवचनम् । 'सम्पन्नो यवः' इति जातावेकवचनम् । ‘सम्पन्ना यवाः' इति व्यक्तिभेदेषु बहुवचनम् । वयमिति बाह्याध्यात्मिकेषु भावेषु । यथा गुरुषु ।अहम् इति पुनरभेदविवक्षायामेकवचनम् ।।३०२ ।
[दु० टी०]
प्रथमा० । “तस्मात् परा विभक्तयः" (२।१।२) इत्यनेन प्रथमा विहिता, तस्या अर्थः कथ्यते। लिङ्गस्यार्थो लिङ्गार्थस्तस्य वचनम् । लिग चाव्यतिरिक्तमर्थं स्वभावात् प्रतिपादयतीत्याह – अव्यतिरिक्तेत्यादि । लिङ्गं तु वस्तुमात्रस्याभिधायकम्, अन्वयव्यतिरेकाभ्यां तन्मात्रप्रतीतेः । तथाहि वृक्षेति विभक्तिं विना वस्तुमात्रं प्रतीयते, शाखादिमत् । कर्मादिशक्तयस्तु विभक्तिवाच्या एव । यत्प्रयोगे यत् प्रतीयते स तस्यार्थ इत्याह - सर्व इत्यादि । न हि पदार्थः सत्तां जहातीति वृक्ष इत्यादि । तथोपमानादयोऽपि, गौर्गवयः, सिंहो माणवकः, धवश्च खदिरश्च पलाशश्च, स्थाणुर्वा पुरुषो वेति । अतिरिक्तार्थस्तु पदान्तरगम्यो न शब्दवाच्यः इति । पाचक इत्यादौ निवर्तक एव लिङ्गार्थ इति न क्रियाकारकलक्षणसम्बन्धस्यातिरिक्तत्वं दुष्यति ।
एवं वाशिष्ठः, कौसुम्भम्' इत्यादौ तद्धितान्तेऽपि प्रकृत्यर्थयुक्त एव प्रत्ययार्थोऽन्वयी । 'कुमारी, किशोरी' इत्यादौ तु सत्यपि लिङ्गभेदे कुमारत्वाद्यर्थः साध्योऽन्वयी । न च वक्तव्यम्, परत्वात् षष्ठी स्यात् । अन्तरङ्गो हि लिङ्गार्थ इति । एवं 'वृक्षः, कुण्डम्':' इत्यादौ पुंस्त्वाधिके वृक्षार्थे, नपुंसकत्वाधिके कुण्डार्थेऽपि इति । यदा प्रस्थादयः परिमाणवृत्तयस्तदाऽनधिक एव लिङ्गार्थ इति अत्र प्रथमा लब्धा, तदन्ता एव प्रस्थादयो मेयादिशब्दैः समानाधिकरणा भवन्ति । सोऽयमित्यभेदोपचारात् प्रस्थो व्रीहेराढको द्रोणः खारीति । यदि पुनः प्रस्थेन परिमितो व्रीहिः, प्रस्थ इत्युपचारः क्रियते । तदैकपदेऽपि मानमेयसंबन्धे षष्ठी स्यात् । अभेदविवक्षापि भेदपूर्विकव । नात्राभेदस्तद्गुणाध्यारोपात् । अथ मेयं प्रधानम्, अन्तरङ्गत्वात् प्रथमेति ? सत्यम् । यदि प्रस्थादीनां सोऽर्थो गौण इति न चिन्त्यते ।