________________
३१६
कातन्त्रव्याकरणम् किन्तु सर्वथा मासपरिमाणत्वेन ज्ञातस्य स्वरूपार्थानुवादकतया एवेति हृदि कृत्वाह - इह तु मासपरिमाणिनो जातस्येत्यादि । मासपरिमाणिनो जातस्य सर्वथा मासपरिमाणित्वेन जातस्य जातस्येत्यर्थः । न परिमाणान्तरेणेति न वर्षादिनेत्यर्थः । नापीति मासमात्रपरिमाणत्वेन जातं जातमित्यर्थः। अथ तर्हि किमर्थं वाक्यप्रयोग इत्याह-वाक्यम् इति । न तु यत्र मासपरिमितत्वेनानभिज्ञस्य ज्ञापनार्थं प्रयोगस्तत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावो विद्यत एव, तत्र कथं न षष्ठीतत्पुरुषः । इदं तु प्रथमाकाङ्क्षायामुक्तम् । परमार्थतस्तु जातस्य मासः परिमाणमिति वाक्ये युक्तार्थताविधिर्न भवत्यभिधानादेवेति तात्पर्यमिति साम्प्रदायिकाः।
महान्तस्तु, ननु पाणिन्यादितन्त्रे उभयोर्व्यवच्छेद्यव्यवच्छेदकभावे षष्ठीसमास इति क्वापि न दृश्यते। ‘करिकरभकुम्भस्तनभरा, राहुमुण्डः' इत्यादौ एकतरव्यवच्छेद्यव्यवच्छेदकेऽपि षष्ठीसमासस्य सर्वतन्त्रसिद्धत्वात् कथं यत्रोभयोरिति सङ्गतिः? सत्यम्, पजीपङ्क्तेरयमाशयः । दुर्गमतेऽपि एकार्थीभाव एव समासोऽभिधीयते । एकार्थीभावश्च पदानाम् एकशक्त्यर्थप्रतिपादकत्वम्। तेन 'राज्ञ' पुरुषः' इत्यादिवाक्ये पदैः खण्डशः एवार्थ उपस्थाप्यते । अन्वयबोधाच्च विशिष्टार्थप्रतीतिः | समासे तु तैरेव पदैः स्वार्थत्यागेन समुदायेन विशिष्टार्थ उपस्थाप्यते, तत्रैव व्यवच्छेद्यव्यवच्छेदकभावविचारः। तथाहि 'राजपुरुषः' इत्यत्र समुदायेन राजसम्बन्धी पुरुष इति विशिष्टार्थप्रतिपादनार्थं राजा वाक्यप्रतिपाद्यात् स्वान्यर्थाद् व्यवच्छिद्यते। पुरुषपदेन यस्मात् पुरुषपदसान्निध्याद् राजा स्वार्थं परित्यजति। एवं पुरुषश्च वाक्यप्रतिपाद्यात् स्वरूपात् स्वार्थाद् राजशब्देन व्यवच्छिद्यते । यतो राजशब्दसान्निध्यात् पुरुषशब्दः स्वार्थं त्यजतीति राजपुरुषशब्दयोरस्ति व्यवच्छेद्यव्यवच्छेदकभावः। एतदेव हृदि कृत्वा पञ्जिकाकारःप्रोवाच- यत्रोभयोरित्यादि । राजा स्वाम्यन्तरात् समुदायप्रतिपार्या नात् स्वामित्वरूपात् समुदायार्थप्रतिपादनार्थं व्यवच्छिद्यते पृथक् क्रियते । एवं पुरुषशब्दोऽपि स्वान्तरात् समुदायप्रतिपाद्यभिन्नात् पुरुषस्वरूपात् स्वार्थाद् राजपदेन समुदायप्रतिपादनार्थं व्यवच्छिद्यते पृथक् क्रियते इति । इह त्विति जातस्य मास इति वाक्ये मासं परित्यज्य वाक्योपस्थाप्यं समासार्थं परित्यज्य जातशब्दस्य न परिमाणान्तरेण वाक्यप्रतिपाद्यार्थभिन्नसमुदायप्रतिपाद्येन सम्बन्ध इत्यादि सोपस्कृतं योज्यम् । अथात्रैव युक्तार्थता कथं न स्यादिति चेत्, न । युक्तार्थताविधेर्लक्ष्यानुसारित्वाद् इति हृदयम् ।