________________
३१५
नामचतुष्टयान्याये पनमः समासपादः समासार्थः इति निश्चितवाक्यं प्रति उभयमतेऽपि वास्तविकं समानार्थं प्रदर्शयन्नाहयस्य जातस्येत्यादि। ननु परमते सामान्येन कालस्य परिमाणिना सह समासाभिधानाद् मृतस्य मासः गतस्य मास इत्यत्रापि समासे मासमतो मासगत इति भवति। अस्मन्मते बहुव्रीहेरर्थस्याभावात् का गतिः ? सत्यम् । परमते समासस्य परिमाणाभिधानप्रसक्तौ परिमाणिनि शक्त्यन्तरमवश्यं कल्पनीयम्। अस्मन्मते शक्त्यन्तरकल्पनगौरवभयाद् मासशब्दस्यैव परिमाणसम्बन्धिपरिमेये वृत्तिं स्वीकृत्य कर्मधारयो मन्तव्य इति । राजा स्वाम्यन्तराद् व्यवच्छिद्यते इति कथमुच्यते, यावता राजेत्युक्ते सामान्यस्यामात्यादेः राजनि स्वामित्वप्रतीतौ पुरुषशब्देनामात्यादिभ्यः स्वान्तरेभ्यो राजा व्यवच्छिद्यते, पुरुषस्यैव राजा नान्येषामिति इत्युक्ते सामान्यस्यामात्यादेः पुरुषे स्वत्वप्रतीतौ राजपदेन पुरुषः स्वाम्यन्तराद् व्यवच्छिद्यते । राज्ञः पुरुष एव स्वं नान्यस्येति । तथा च राजा स्वान्तराद् व्यवच्छिद्यते पुरुषश्च स्वाम्यन्तरादिति वक्तुमुचितम् ? सत्यम् । षष्ठ्यन्तपदमवलम्ब्यैव व्यवच्छेद्यव्यवच्छेदकभावविचारः।
तथाहि पुरुषस्येति स्वषष्ट्या स्वामित्वमपेक्षते । ततः पुरुषस्य स्वामीत्युक्तेऽमात्यादेरपि स्वामित्वप्रतीतौ राजपदसान्निध्यात् पुरुषपदेन राजा स्वाम्यन्तरेभ्योऽमात्यादिभ्यो व्यवच्छिद्यते । राजेव स्वामी नान्यः, एवं राज्ञः' इति स्वामिनि षष्ट्या सामान्यस्वत्वमपेक्षते । ततश्च ‘राज्ञः स्वामी' इत्युक्ते सामान्येन स्वत्वप्रतीतौ पुरुषपदसन्निधानात् राजपदेन स्वान्तराद् धनादेः सकाशात् पुरुषो व्यवच्छिद्यते। राज्ञो नान्यद् धनादिकं पुरुष एवं स्वम्। अथवा पुरुषस्येत्युक्ते राजामात्याद्यर्थस्य स्वामित्वप्रतीतौ राजपदेन स्वाम्यन्तरेभ्यो राजार्थो व्यवच्छिद्यते। एवं राज्ञः' इत्युक्ते सामान्येन पुरुषधनाद्यर्थे स्वत्वप्रतीतौ पुरुषपदेन स्वान्तराद् धनादेः सकाशात् पुरुषार्थो व्यवच्छिद्यते इति । यद् वा 'राज्ञः' इत्युक्तेऽनेकस्य धनादेः राजनि स्वामित्वप्रतीतौ पुरुषशब्देनात्मीयस्वामित्वारोपेण धनादिसम्बन्धिस्वामित्वाद् राजा व्यवच्छिद्यत एव । पुरुषस्येत्युक्तेऽनेकस्य राजामात्यादेः पुरुषे स्वत्वप्रतीतौ राजशब्देन पुरुषे आत्मीयस्वत्वारोपेणामात्यादेः स्वत्वात् पुरुषो व्यतिक्रमेणान्वय इति। अन्येऽपि बहवः पक्षा ग्रन्थगौरवभयादुपेक्षिताः इति दिक् ।
इह त्वित्यादि। ननु जातस्यैव मासः परिमाणं न मृतस्य तथा जातस्य मास एव परिमाणं न वर्षादिकमिति कथन्न व्यवच्छेद्यव्यवच्छेदकभावः? सत्यम् । नात्र जातस्य मासः परिमाणमित्यनभिज्ञस्य जनस्य प्रतिपत्तये जातस्य मास इति प्रयोगः क्रियते.