________________
३१७
नामचतुष्टयाप्याये पत्रमः समासपादः नन्वेवं कुत्रापि वाक्ये युक्तार्थताविरहाद् वाक्यसमासयोराभिधानेन वाक्याभिधानमुचितमित्याह - वाक्यन्तु इति । मुख्यार्थकथनाय वाक्यशब्दप्रयोग इत्यर्थः । तदुक्तं न्यासकृता -वृत्तिवाक्ययोरभिन्नार्थत्वं मुख्यार्थमादायैव कथ्यते । न ह्यनयोरन्यूनातिरिक्तार्थता क्वापि संभवतीत्याहुः । अब्राह्मण इति वृत्तिः । अत्र "नञ्" इति पाणिनिसूत्रम् । अस्यार्थः- उत्तरपदेन नञ् समस्यते इति। तत्र अकारकरणात् सानुबन्धस्य नकारस्य तत्पुरुषो निरनुबन्धस्य नकारस्य "सुप सुपा" (अ० २।१।४) इत्यनेन सामान्यसमासे "गमिकर्मीकृतनैकनीवृता'' इत्यादयः प्रयोगाः सिध्यन्ति । तथा च 'न लोभो नाशुभा मतिः' इत्यत्र सहस्रनामटीकायां शङ्कराचार्येणापि "सुप सुपा" (अ०२।१।४) इत्यनेनैव समास इत्युक्तम् । तदस्मन्मते नैक इत्यादिप्रयोगा न सिध्येयुः, "नस्य तत्पुरुषे लोप्यः" (२।५।२२) इत्यनेन लोपप्रसङ्गात् । सत्यम् । अस्मन्मतेऽपि सानुबन्ध यैव नञः कर्मधारय इष्यते । निरनुबन्धस्य तु नाम्नामित्यनेन सामान्यसमासः । अतो "नस्य तत्पुरुषे लोप्यः" (२।५।२२) इत्यनेन तत्पुरुषयोग्यनकारस्य लोपात् नैक इत्यादयः प्रयोगाः सिध्यन्तीति । ननु ‘अवल्लजास्तृणम्' इत्यादौ नसमासस्योत्तरपदार्थभिन्नव्यक्तिवाचित्वाद् विशेष्यतृणादिगतमेव लिङ्गं संख्या च भवितुमर्हतीति कथम् उत्तरपदलिङ्गसंख्यानियम इत्यत आह - तद्गते च लिङ्गसंख्ये भवतः इति । नजिव युक्तमित्यादि । नञ् युक्तमिव, युक्तं च ब्राह्मणादिपदं स्वार्थादस्मिन् स्वार्थसदृशेऽधिकरणे वर्तते इति । अत्रैव हेतुमाह - तथा यर्थगतिरिति ।हि यस्मात् तादृशी अर्थावगतिरित्यर्थः । तेन ब्राह्मणशब्दस्योपचारेण सदृशार्थाभिधानाल्लिङ्गसंख्ययोरपि न परित्यागः, षट् पुरुषानित्यादौ स्वलिङ्गसंख्यापरित्यागादर्शनात् । अत्र अस्त्रियाम्' इत्यादि ज्ञापकमुन्नेयम् । तुल्याधिकरणत्वाच्चानेन कर्मधारय इति ।
ननूत्तरपदस्य स्वार्थभिन्नवाचित्वेन नोऽभावार्थः पृथग् विद्यते न वा ? सत्यम्, यद्यस्तीत्युच्यते, तदा 'अब्राह्मणः' इत्यत्र ब्राह्मणपदस्य ब्राह्मणसदृशवाचित्वेन नञश्च तदर्थभिन्नवाचित्वेन ब्राह्मणसदृशक्षत्रियभिन्न इत्यर्थे सति तुल्याधिकरणत्वमेव नास्ति, यदि नञोऽर्थ एव न विद्यते तदा सुतरामेवैकाधिकरण्यं न संगच्छते, पूर्वपदस्यार्थाभावात् ? सत्यम् । नञ्पदसन्निधानात् लक्षणया ब्राह्मणपदेन तत्सदृशं क्षत्रियादिकमुच्यते । नपदेन चानुपचरितब्राह्मणपदार्थभिन्नमेवोच्यते स्वभावात् । तदुक्तं चिन्तामणिकृता- नञ उत्तरपदार्थसदृशे क्षत्रियादौ लक्षणेति, ततश्च ब्राह्मणभिन्नोऽयं