________________
कातन्त्रव्याकरणम्
राजा राजदन्तः । वनस्याग्रे अग्रेवणम् । सप्तम्या अलुक् । एवमन्येऽप्यूह्याः । एवं पूर्वकालस्यापि परनिपातः । लिप्तवासितः । पूर्वं वासितः पश्चाल्लिप्तः । एवं नग्नमुषितः, सिक्तसंमृष्टः, भृष्टलुचितः, क्लिन्नपक्वः, अर्पितोढः, तप्तगाढः । क्वचिद् विशेषणविशेष्ययोर्यथाभिधानम् । कडारश्चासौ जैमिनिश्चेति कडारजैमिनिः, जैमिनिकडारः। गरुलकाणः, काणगरुलः । खञ्जकुष्ठः, कुष्ठखञ्जः । खोडखलतिः, खलतिखोडः । गौरवृद्धः, वृद्धगौर : । भिक्षुपिङ्गलः पिङ्गलभिक्षुः । तनुवटरः, वटरतनुः । कृष्णश्वेतः, श्वेतकृष्णः इत्यादयः ।
उद्यतोऽसिर्येन, असिरुद्यतो येन । विशेषणविशेष्ययोर्यथेष्टत्वाद् उभयं भवति उद्यतासिः, अस्युद्यतः । एवम् आहिताग्निः, अग्न्याहितः । जातपुत्रः, पुत्रजातः । जातदन्तः, दन्तजातः । जातश्मश्रुः, श्मश्रुजातः । तैलपीतः, पीततैलः । पीतघृतः, घृतपीतः । ऊढभार्यः, भार्योढः । एवमन्येऽपि । जातिकालसुखादिभ्योऽपि क्तान्तस्य पूर्वनिपातो बहुव्रीहौ नेष्टः, तथा विशेषणविशेष्ययोर्यथेष्टत्वादुभयम् - शारङ्गजग्धी-जग्धशारङ्गी । पलाण्डुभक्षिती - भक्षितपलाण्डुः ।मासजाता - जातमासा | सुखहीना - हीनसुखा । तथा प्रियस्यापि - गुडप्रियः- प्रियगुडः । सर्वनाम्नामपि विशेषणत्वादेव पूर्वनिपातः । सर्वः श्वेतोऽस्य सर्वश्वेतः । एवं सर्वकृष्णः । तथा संख्यायाः- पञ्च वक्त्राण्यस्य पञ्चवक्त्रः । एवं षडुन्नतः । द्वावन्यावस्य व्यन्यः, एवं व्यन्यः । कथं गडुकण्ठः, गडुशिराः, वज्रपाणिरिति कण्ठादेरधिकरणत्वाद् विशेषणमेव ? सत्यम् । कण्ठे गडुरस्येति विग्रहे कण्ठगडुरित्यादि भवत्येव । इह तु गडूपलक्षितः कण्ठोऽस्येति विग्रहः । क्तान्तस्य विवक्षया परनिपातोऽस्तीति मतम् । कटे कृतमनेनेति विग्रहे 'कटकृतः' इति भवितव्यम्, भावे क्तस्य विधानाद् अर्थभेदस्याभावाद् यथेष्टं विग्रहः क्रियताम् । दृश्यते च प्रयोगःरिपुस्कन्धघृष्टचक्रायेति । रिपुस्कन्धे घृष्टं चक्रं येन तस्मै रिपुस्कन्धवृष्टचक्रायेति । अविशेषणस्य क्तान्तस्य पूर्वनिपाते सतीहापि घृष्टशब्दस्य पूर्वनिपातः स्यात् । ततो विशेषणस्यैव क्तान्तस्य पूर्वनिपातः इति युक्तम् । बहुव्रीहावपि संख्यायाः क्रम एव । द्वौ वा त्रयो वा परिमाणमेषां द्विवाः । तरग्रहणमित्यादि । अयमल्पस्वरः । अयमनयोरल्पस्वरः अल्पस्वरतर इत्यर्थः। तर्हि द्वयोरित्यत्रैव कथं न कृतवान् ? सत्यम् । प्रयोगदर्शनमाश्रित्येदमुक्तम् । प्रक्रर्षमात्रेऽपि तरप्रत्ययो दृश्यते इति भावः ।। ३४९ ।