________________
नामचतुष्टयाप्याये पनमः समासपादः
३५५
[दु० टी०]
अल्प० । द्वितीयादितत्पुरुषस्य परपदेनेति वचनाद् कर्मधारयवद् 'नागृहीतविशेषणा बुद्धिर्विशेष्ये भवति' इति न्यायाद् बहुव्रीहावपि पूर्वनिपातः सिद्ध एव द्वन्द्वार्थमिदमुच्यते । यद्यपि प्रयोगे विपर्ययो न दृष्टस्तथापि पुरुषनियामके प्रयोगे पुरुषापराधाद् विपरीतप्रयोगोऽपि संभाव्यते । येषां वाक्यमेव समासीभवतीति दर्शनम्, तेषां वाक्यस्यापि नियतक्रमत्वात् तद्विकारोऽपि समासोऽनियतक्रम इति पक्षं सूचयन्नभिधानमाश्रयति - उदूखलेत्यादि । एवंप्रकारा आदयो येषामिति । स्नातकराजानौ, अक्षिध्रुवम्, दारगवम् ।
अग्न्यन्तं च पूर्वम् – पटुगुप्तौ । क्वचित् परम् - चित्रास्वाती, भार्यापती, जायापती, जम्पती, दम्पती, पुत्रपती, पुत्रपशू, केशश्मश्रू, शिरोबिन्दू | समासे जायाशब्दसमासार्थों 'जम् - दम्' - शब्दौ सिद्धाविति । क्वचिदनियमः- मधुसर्पिषी, सर्पिर्मधुनी । आद्यन्तौ, अन्तादी । वृद्धिगुणौ, गुणवृद्धी ।
बहूनां चानियमः- पटुमृदुशुक्लाः, पटुशुक्लमृदवः । क्वचित् स्वराद्यन्तं पूर्वम् - अश्वमयूरम, उष्ट्रखरम् । क्वचिद् विपर्ययः-शूद्रार्य्यम्, अवन्त्यश्वकम्, विष्वक्सेनार्जुनौ । क्वचिदनियमः- धर्मार्थो, अर्थधर्मों, शब्दार्थों, अर्थशब्दौ, कामार्थों, अर्थकामौ, चन्द्रार्की, अर्कचन्द्रौ, इन्द्राग्नी, अग्नीन्द्रौ, चन्द्रार्केन्द्राः, इन्द्रार्कचन्द्राः | अतुनक्षत्राणां तुल्यस्वराणामानुपूर्येण - हेमन्तशिशिरौ, कृत्तिकारोहिण्यः । अतुल्यस्वराणान्त्वल्पस्वरतरं तत्र पूर्वम् - ग्रीष्मवसन्तौ । बहूनां व्यभिचारः- 'शरद् - ग्रीष्म- वसन्तेषु प्रायशो दधि गर्हितम्' | श्रवणधनिष्ठाश्विनीषु यजेन्नरः फलोपचयकामः ।संख्याभ्रातृवर्णानामपि क्रमात् - पञ्चषट्, त्रिचतुः, पञ्चषाः, युधिष्ठिरार्जुनौ, ब्राह्मणक्षत्रियविट्शूद्राः । व्यभिचारोऽपि दृश्यते-हयेकयोर्द्विवचनैकवचने- चतुस्त्रिवर्जिताः, अर्जुनभीमसेनौ, शूद्रविट्क्षत्रियविप्राणाम् ।
लघ्वक्षरं पूर्वम् - कुशकाशम् । व्यभिचरति च-काशकुशावलम्बनमिति दर्शनात् । तत्पुरुषकर्मधारयबहुव्रीहीणामपि व्यभिचारो निगद्यते । राजदन्तादिषु परम् - दन्तानां