________________
कातन्त्रव्याकरणम्
एतदेव वृद्धमतानुसारेण द्रढयति तथा चोक्तमित्यादिना । असाक्षात् क्रियां धारयत् परम्परया आत्मनि क्रियासामान्यमवस्थापयद् अधिकरणमित्यर्थः । कथमत्र असाक्षाद् धारणमित्याह - कर्तृकर्मव्यवहितामिति। कथं तर्हि क्रियानिमित्तमित्याह - उपकुर्वदिति। कटे आस्ते इत्यादिषु स्थित्यादिक्रियासिद्धौ उपकुर्वद् उपकारं कुर्वद् हेतुरित्यर्थः । अन्यथा यदि कटो न स्यात् तदा देवदत्तादेरधः पतने स्थितिरेव न स्यात् । ननु यदि परम्परया क्रियाधारोऽधिकरणं तदा यत्र साक्षात् क्रियाधारत्वं तत्र कथं स्यात् । यथा गले बद्ध्वा गौर्नीयते इति ? सत्यम् । अवयवेऽपि अवयवी विद्यते इति यन्मतम्, तन्मते गलेऽपि बन्धनक्रियाधारो गौर्विद्यते इति न दोषः । चैत्रे स्थितिरित्यादौ तु अस्तिक्रियाध्याहारान्न दोषः।
यद् वा यदेव क्रियाधारभूतत्वेन विवक्ष्यते, तदेवाधिकरणम् । परम्परया क्रियाधारभूताधिकरणत्वमिति यदुक्तं पत्रिकायां तदुपलक्षणं वेदितव्यम् । तेन कर्तृकर्मान्यतरद्वारा साक्षाद् वा क्रियाधारत्वमधिकरणत्वम् इति । अत एव यत्र कर्मादिकं विवक्ष्यते तत्राप्यधिकरणव्यवहार इष्ट एव । केवलं संज्ञान्तरबाधया सप्तमी न साधु, किन्तु विवक्षायाः प्राधान्यात् 'स्थाल्या पचति, स्थाली पचति, स्थाल्यां पचति, स्थालीं पचति' इत्यादि । न च स्थाल्यामागारे पचतीत्यत्र कथम् आगारस्याधिकरणसंज्ञा, स्थाल्या एव कर्माधारत्वादिति वाच्यम्, अधिश्रयणादिक्रियां प्रति कर्तृद्वारा आगारस्याप्यधिकरणत्वम् । स त्रिविध इत्यादि । तदुक्तम् -
औपश्लेषिको वैषयिकश्चाभिव्यापक एव च।
आधारस्त्रिविधो ज्ञेयः कटाकाशतिलादिषु ॥ इति । आधाराधेययोरित्यादि। आधाराधेययोर्मध्ये आधेयेन तैलादिना सह तुल्यजन्मा यः शक्तिविशेषः सोऽधिकरणम् । शक्तिशक्तिमतोरभेदाद् आधारपदेनात्र तिलादिरुच्यते । अपृथग्देशभागानामिति । न पृथरदेशभागोऽपृथग्देशभाग इत्याधारस्य तिलस्य सर्वदेशभागम् अभिव्याप्य तिष्ठतीत्यभिव्यापक इति कर्तरि वुण् । न च तैलादिकस्याभिव्यापक
९. ननु मुख्यक्रियाधारभूतत्वम् अधिकरणत्वमिति प्रागुक्तम् । अत्र कथलाक्षणिकाधिश्रयणादिक्रियां प्रति कर्तृद्वारा गृहस्यापि आधारत्वम् इत्युच्यते ? सत्यम् । विक्लित्त्यनुकूलाधिश्रयणादित्वरूपो धात्वर्थ इति यन्मतं तन्मतमवलम्ब्योक्तमिति।