________________
६३
नामचतुष्टयाध्याये चतुर्थः कारकपादः त्वात् कथं तिलादिकम् अभिव्यापकमुच्यते, कर्मणि वुणोऽसाधुत्वादिति वाच्यम्, तिलादेः सर्वभागाभिव्यापकस्य शक्तिविशेषस्याभिव्यापकशब्दवाच्यत्वादिति ।
___ अन्ये तु अभिव्यापकशब्दवाच्यस्य तैलादेः सम्बन्धशालित्वात् तिलादिकमभिव्यापकमुच्यते इत्याहुः । यद्यपीत्यादि । पृथगुच्यते इति । औपश्लेषिकात् पृथगुच्यते । अभिव्यापकत्वेन व्यपदिश्यते इत्यर्थः । वस्तुतो घटे रूपमस्तीत्यादिकं मुख्यमभिव्यापकमुदाहर्तव्यम् । 'तिलेषु तैलम्' इत्यौपश्लेषिकमेव । नन्वत्राधाराधेययोरन्यत्र सिद्धत्वेनानुपलम्भात् कथमुपश्लेषः ? सत्यम् । दृष्टादृष्टपरमाणवस्तिलेषु संविशन्तीति यन्मतं तन्मतमवलम्ब्योक्तम् । अन्ये तु अन्यत्र सिद्धयोरिति यदुक्तं तदुपलक्षणं न तु विशेषणम्, किन्तु गुणरूपसंबन्धविशेष उपश्लेष इति उपश्लेषलक्षणम् । विषयो हनन्यत्रभावः इति । न विद्यते अन्यत्र भावो यस्मात् स विषयः, यस्मादन्यत्राधेयस्य सद्भावो न विद्यते । यथा चक्षुरादिवृत्तीनां रूपादेरन्यत्राभावाच्चक्षुरादीनां रूपादयो विषया उच्यन्ते । एवं दिवोऽन्यत्र देवानां स्थितेरभावाद् ‘दिवि देवाः' इत्युदाहरणम् । ननु विषये भवो वैषयिक आधेय एव स्यात् तत् कथम् आधारो वैषयिक इत्युच्यते ? सत्यम् । वैषयिकेणाधेयेन सम्बन्धादाधारोऽपि वैषयिक उच्यते । वस्तुतस्तु शक्तिविशेषस्य विषये भवत्वात् स एव शक्तिरूपो वैषयिक इति न दोषः। ननु आकाशादन्यत्रापि देवानां सद्भावदर्शनात् कथं 'दिवि देवाः' इति विषयस्योदाहरणम्, यतो द्रव्यद्वयस्य संबन्धाद् उपश्लेष एव गम्यते । यथा 'कटे आस्ते' इत्यादि ? सत्यम् । वस्तुतो नेदमुदाहरणम्, किन्तु देवानाम् आकाश एव स्थितिः प्रसिद्धा । आकाशस्यामूर्तत्वेन संयोगस्य प्रतीयमानत्वान्नोदाहरणम् । तस्माद् विषयो ह्यनन्यभावः ।
अस्यायमर्थः । 'न विद्यते आधाराधेयाभ्यामन्यत्र समवाये संयोगे च भावो यस्य स तथा । औपश्लेषिकाभिव्यापकौ हि आधाराधेयसंयोगसमवायान्यतरेणाधाराधेयाभ्यां चैतत्रितयनिमित्ते निरूप्येते । वैषयिकस्तु केवलम् आधाराधेयाभ्यामेव निरूप्यत इति।
१०. न विद्यते आधारघटकाभ्याम् आधाराधेयाभ्यामन्यत्राधेयतानिरूपके संयोगे समवाये वा भावः सत्ता निरूपितत्वसंबन्धेन यस्य स्वरूपादिसंबन्धघटितः शक्तिविशेषविषय इति । एवं च 'कटे आस्ते' इत्यादौ कटनिष्ठाधिकरणता आधाराधेयाभ्यां संयोगेन च निरूप्यते इति । अत्रौपश्लेषिकः । घटे घटत्वमित्यादौ आधाराधेयाभ्यां समवायेन चाधिकरणता निरूप्यत इत्यभिव्यापकः। 'भूतले घटाभावः' इत्यादौ तु आधाराधेयाभ्यां (तदन्य) स्वरूपादिसंबन्धेन चाधिकरणता निरूप्यते ततो वैषयिकः इति ।