________________
५०
कातन्त्रव्याकरणम्
स्यात् तदा योऽभिप्रैतीत्यर्थे 'उपाध्यायाय गां ददाति देवदत्तः' इति देवदत्तस्यापि' स्यात् । नैवम्, तदा कर्तुः संप्रदानत्वे कर्तरि तिप्रत्ययो न स्यात्, तदभावे कथं ददातेः प्रयोगः, तदभावे च कथं सम्प्रदानत्वमिति चेन्मयाऽप्येतद् दूषणमापाद्यते । किञ्च 'देवदत्ताय गौर्दीयते यज्ञदत्तेन' इति कर्तुः संप्रदानत्वं स्यात् । अथ तर्हि यज्ञदत्तस्य संप्रदानत्वे कर्तुः क्रियाया व्याप्यत्वाभावाद् गोः कर्मत्वं न स्यात् । नैवम् । कर्तृसंज्ञायां कर्तृग्रहणस्य कर्तृत्वमात्रोपलक्षणत्वम्, न तु कर्तृसंज्ञकस्य क्रियाया यद् व्याप्यं तत् कर्मेति । कथमन्यथा ‘ग्रामं गमयति देवदत्तं यज्ञदत्तः' इत्यादौ देवदत्तस्य कर्मत्वे कर्तृसंज्ञकस्य क्रियाया व्याप्यत्वाभावाद् ग्रामस्य कर्मत्वमिति । तस्माद् यद्ग्रहणं कर्तव्यमेव |
ननु किं क्रियामात्रस्य कर्मणा यं संबध्नाति ददातेः कर्मणा वा | नायः, 'अजां नयति' ग्रामम्' इत्यादौ ग्रामस्यापि संप्रदानत्वप्रसङ्गात् । नापि द्वितीयः, 'रजकस्य वस्त्रं ददाति' इत्यादावतिप्रसङ्गात् सूत्रे ददातिग्रहणाभावाच्च । उच्यते - सम्प्रदानमित्यन्वर्थसंज्ञायां दाधातोः श्रवणाद् ददातिलभ्यते । तेनोक्तस्थाने ग्रामादावतिप्रसङ्गो नास्ति । तथा समुपसर्गेण सम्यक् प्रदीयते यस्मै तत् संप्रदानमिति व्युत्पत्त्या स्वस्वत्व ध्वंसपूर्वकपरस्वत्वापादनं ददातेरों लभ्यते, तेन ‘रजकस्य वस्त्रं ददाति' इत्यादौ धातूनामनेकार्थत्वाद् ददातेरर्पणार्थत्वान्नातिप्रसङ्गः । तर्हि 'राज्ञो दण्डं ददाति' इत्यत्र स्वस्वत्वध्वंसपूर्वकपरस्वत्वापादनस्य ददात्यर्थत्वान्न कथं सम्प्रदानत्वम् ? सत्यम् । प्रशब्दस्य प्रकर्षार्थत्वेन पूजादिपुरःसरता लभ्यते इति न दोषः तथा चोक्तम् -
अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्येनाप्तं ददातेस्तु संप्रदानं प्रकीर्तितम् ॥
१.यतः स्वव्यापारजन्यफलभागित्वरूपसम्बन्धानुकूलव्यापाराश्रयो देवदत्तो भवति,अतस्तस्यापि संप्रदानत्वं स्यादित्यर्थः।
२. संयोगानुकूलस्पन्दनानुकूलरज्ज्वाकर्षणादिरूपो नीधातोरर्थः । रज्ज्वाकर्षणरूपव्यापारजन्यस्पन्दनशालित्वाद् ग्रामादेः कर्मत्वे ग्रामवृत्तिसंयोगानुकूलाजावृत्तिस्पन्दनानुकूलकृत्याश्रयं इति दोषः ।
३. अत्र कर्तुः रजके परिष्कारप्रकारक इच्छाविषयतारूपसंबन्ध इत्यर्थः । ४. यथेष्टनियोगार्हत्वेन सन्तु गम्यत्वं स्वस्वत्वत्वमिति प्रानः । अतिरिक्तपदार्थ इति शिरोमणिः ।
५. अर्पणं च संबन्धानुकूलव्यापारः । अत्र वस्त्रस्य रजके संयोगसंबन्धस्तदनुकूलव्यापाराश्रयो जन इत्यर्थः।