________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः सम्प्रदानं तदैव स्यात् पूजानुग्रहकाम्यया।
दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥ अयमर्थः- एतत्त्रयं यदि त्यागकारणं भवति, तदा संप्रदानं भवतीति, तत्पुनः कीदृशम् - ददातेाप्येन कर्मणा आप्तं संबद्धमित्यर्थः' । ददातिरित्यर्थपरोऽयम् । तेन 'गुरवे गां यच्छति' इत्यादिकमपि सिद्धम् । अनुमन्तरि यथा - 'गुरवे गां ददाति' | गुरुस्तु प्रार्थितः सन् अनुमन्यते । अनिराकर्तरि यथा 'आदित्यायाय॑ ददाति' । आदित्यो हि 'मह्यं देहि' इति न प्रेरयति, नानुमन्यते । केवलं दीयमानं न निराकरोति । प्रेरके यथा - 'ब्राह्मणाय वस्त्रं ददाति' । ब्राह्मणो हि ‘मह्यं वस्त्रं देहि' इति प्रेरयति । यदि प्रेरकं सम्प्रदानं स्यात् । तर्हि ब्राह्मणाय धनं दातुमिच्छन्तं देवदत्तं यज्ञदत्तः प्रयुक्ते इत्यत्र यज्ञदत्तस्य प्रेरकत्वात् सम्प्रदानसंज्ञा स्यादित्याह - व्याप्येनाप्तमिति । तर्हि 'राज्ञो दण्डं ददाति' इत्यत्र राज्ञः प्रेरकत्वात् संप्रदानसंज्ञा स्यादित्याशङ्क्याह सम्प्रदानं तदैव स्यादित्यादि।
अत्र पूजानुग्रहकाम्या नास्तीति भावः । गौरवितप्रीतिहेतुक्रिया पूजा। सा यथा-देवतायै पुष्पं ददाति । परदुःखमपहर्तुमिच्छा अनुग्रहः। यथा – भृत्याय वस्त्रं ददाति । स्वगतत्वेन फलसंकल्पः काम्या। यथा दास्यै मालां यच्छति । ननु 'पूजानुग्रहकाम्यया' इत्यत्र समाहारत्वादेकवचनत्वेन नपुंसकत्वं कथन्न स्यात् ? सत्यम् । पूजानुग्रहाभ्यां सहिता काम्येति मध्यपदलोपी समासः । [यद् वा पूजानुग्रहयोरिच्छा पूजानुग्रहकाम्या । दास्यै मालां यच्छतीत्यादावनुग्रहत्वेन संग्रह इति पाठान्तरम् । अथ तर्हि 'अतिथीनामासनं ददाति' इत्यत्र पूजासत्त्वात् संप्रदानत्वं कथन्न स्यादित्याह - दीयमानेनेत्यादि । दीयमानेन वस्तुना संयोगसंबन्धेऽपि स्वामित्वं नास्तीति भावः । एतदर्थानुसारेणैव सर्ववर्मणापि “यस्मै दित्सा" इति सूत्रं प्रणीतमिति ।
१. ददात्यर्थकर्मवृत्तिस्वत्वनिरूपितप्रतियोगिताविशिष्टमित्यर्थः । २. गौरवम् आराध्यत्वावगाही ज्ञानप्रभेदः, येयं भक्तिरित्युच्यते । गौरवं संजातमस्येति तारकादित्वादितच । ३. अत्र कर्तुरतिथौ ददातेः कर्मणा आसनेन स्वक्रियाप्रयुज्योपवेशनाश्रयत्वरूपसंबन्धः ।