________________
कातन्त्रव्याकरणम्
___अयमर्थः- स्वस्वत्वपरित्यागेन यस्य परस्य स्वत्वमुत्पादयितुम् इच्छा धर्माद्यभिसंबन्धिनी मतिर्भवति, तत् संप्रदानमित्यर्थः । एतेन ‘राज्ञो दण्डं ददाति' इत्यत्रेच्छाविरहान्न संज्ञेति । यदि धर्माद्यभिसंबन्धिन्या मत्या दण्डं ददाति, तदा राज्ञो दण्डं ददातीत्यत्र संप्रदानत्वं भवत्येव । ननु ‘रजकस्य वस्त्रं ददाति' इत्यादौ दाधातोरर्पणार्थस्य दृष्टत्वात् स्वस्वत्वपरित्यागपूर्वकपरस्वत्वापादनार्थं ददातेरर्थः कुतो लभ्यते इति चेत्, उच्यते । सम्यक् प्रकर्षेण दीयते यस्मै इत्यन्वर्थबलात् स्वस्वत्वपरित्यागपूर्वकपरस्वत्वापादनरूपो धात्वर्थो लभ्यते इति परसूत्रे व्याख्यातमेव । ननु यदि स्वस्वत्वपरित्यागपूर्वकं परस्वत्वापादनं ददातेरर्थ इत्युच्यते, तदा कथं संप्रदानं संगच्छते । तथाहि प्रथमतो वस्तुनः स्वस्वत्वपरित्यागे जाते वस्तुनि कर्तुरौदासीन्यात् परस्वत्वापादनमेवाशक्यमिति स्वत्वे स्थितेऽपि तथैव दूषणम् । नहि यदात्मीयं तत् परकीयमिति शक्यते व्यपदेष्टुमिति स्वस्वत्वस्य परस्वत्वप्रतिबन्धकत्वात् । तदुक्तम् ,
स्वस्वत्वे विद्यमाने तु परस्वत्वं न वियते।
परित्यज्य च स्वस्वत्वमौदासीन्यान सिध्यति॥ अत्र केचित् सिद्धान्तयन्ति । तथाहि स्वस्वत्वपरित्यागोपक्रमकपरस्वत्वापादनपर्यन्तः समुदायो ददात्यर्थः । स्वस्वत्वं त्यजन् परस्वत्वमापादयतीत्यर्थः । यदि हि स्वस्वत्वपरित्यागमात्रं परस्वत्वापादनं ददात्यर्थः स्यात्, तदैवोक्तदोषः संभवति । यदि तु समुदायो ददात्यर्थस्तदा न किञ्चिदपि दुष्यति, तन्न । नहि समुदायोऽवयवो वा ददात्यर्थ इति विचार्यते । तथा च सति समुदायोऽपि ददात्यर्थः कथं स्यात्, उत्तरीत्या सम्भवादिति । अत्रोच्यते - दानं हि संकल्पविशेषः । नेदं ममेत्येवंस्वरूपः । स एव संकल्पः स्वस्वत्वध्वंसद्वारा परस्वत्वमापादयतीति ।
स्वस्वत्वध्वंसदशायां दातुरुदासीनत्वेऽपि कृतेन त्यागेन संकल्परूपेण परस्वत्वापादने बाधकाभावात् ।यथा कालान्तरे यज्ञकर्तुरुदासीनत्वेऽपि प्राक्तनकर्मणा स्वर्गाद्युपभोगो जन्यते इति सर्वमुपपन्नम् । तदयं संक्षेपार्थः। स्वस्वत्वध्वंसद्वारा परस्वत्वजनकीभूतः संकल्पविशेषो दानम् । एतेन त्यागजन्यस्वत्वफलभागित्वं संप्रदानत्वमिति