________________
५३
नामचतुष्टयाध्याये चतुर्थः कारकपादः संप्रदानलक्षणम् । 'त्यागस्तु परस्वत्वफलिकेच्छा । एतत् सर्वं यत्र वास्तविकं तत्र मुख्यमेव संप्रदानम् ।अवास्तविके तु विवक्षामात्रेण प्रयोगस्य साधुत्वम् । एतेन 'प्रदीयतां दाशरथाय मैथिली' (वा० रा०६।९।२१ - २२) इत्यादौ रावणस्य मैथिल्यां स्वत्वाभावेऽपि स्वत्वविवक्षया प्रयोगस्य साधुत्वमिति ।
वस्तुतस्तु अत्रापि पूजापुरःसरमेव मैथिली दीयतामिति प्रयोक्तुस्तात्पर्यम् । ततश्च मुख्यसंप्रदानमेव । न च मैथिली प्रति स्वत्वाभावात् कथं मुख्यसंप्रदानत्वमिति वाच्यम् । चौरस्यापहरणक्रिययैव स्वत्वापादनात् । यत्तु 'द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समाप्नुयात्' इति धर्मशास्त्रं दृश्यते, तत्रास्वामिशब्दो निन्दार्थः । चौरस्य स्वामित्वाभावात् पूर्वस्वामीति पूर्वशब्दो निरर्थक एव स्यादिति । यद् वा 'तादर्थ्यविवक्षया चतुर्थी । ननु सर्ववर्मणा "तादर्थे" (चा० २।१।७९) इति सूत्रं न कृतम्, किन्तु चन्द्रगोमिप्रणीतं सूत्रं वृत्तिकृता लिखितमिति। तत्कथमस्मन्मते तादर्थ्यविवक्षया चतुर्थीत्युच्यते ? सत्यम् । तादर्थेऽपि सम्प्रदानत्वमस्ति । तथाहि - यस्मै दित्सेति । यस्मै दातुं संकल्पयितुं धातूनामनेकार्थत्वाद् बोधयितुमिति यावत् । इच्छा मतिर्भवति, तत् सम्प्रदानम् ।
इदं तु दित्साग्रहणं गौणसम्प्रदानार्थम् । मुख्यसंप्रदानं तु अन्वर्थबलादग्रत एव व्याख्यातम् । अन्यथा सम्प्रदानमिति गुरुसंज्ञावैयर्थमेव स्यादिति संक्षेपः। यस्मै रोचते इति । अत्र "रुच्यानां प्रीयमाणः" (अ० १।४।३३) इति पाणिनिः। अयमर्थः'प्रीयमाणः' इति कर्तर्यानश् ।रुच्यर्थानां धातूनां प्रयोगे यः प्रीयमाणः प्रीतिभाग भवति स संप्रदानं स्यात् । एतदनुसंधानेनैव यस्मै रोचते इत्युक्तम् । अयमर्थः- यस्मै रोचते । यं मोदकादिभिरभिलाषयति यस्य प्रीतिं जनयतीति यावत् । ननु ‘स्फुरदधरसीधवे तव
१. ननु 'दम्पत्योर्मध्यगं धनम्' इति शास्त्रेण 'ब्राह्मणाय धनं ददाति' इत्यस्मिन् विषये 'ब्राह्मण्यै धनं ददाति' इति प्रयोगः स्यात् ? सत्यम् । स्वत्वभागित्वेनोद्देश्यत्वमिति देयम् । अत्र स्वत्वभागित्वेन ब्राह्मण एवोद्देश्यो न ब्राह्मणीत्याशयः। तेन काशीस्थितजनस्यापि संप्रदानत्वं सिद्धम् । त्यज्यमानद्रव्यस्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वमिति नैयासिकः। अत्रापि त्यागपदेन त्यागविशेषो ग्राह्यः । त्यागविशेषस्तु मूल्यग्रहणाभावपूर्वकस्वस्वत्वध्वंसद्वारा परस्वत्वजनकीभूतसंकल्परूपः, तेन विक्रयादौ क्रयदेर्न संप्रदानत्वम्, श्राद्धादौ पित्रादेर्न स्वत्वभागित्वेनोद्देश्यत्वम्, किन्तु प्रीतिभागित्वेनेति। अत एव "नमः स्वस्तिस्वाहास्वपा०" (अ० २।३।१६) इत्यादिना चतुर्थीविधानं युक्तमिति नैयासिकाः।
२. ननु 'पूर्वस्वामी समाप्नुयात्' इत्यत्र पूर्वशब्देन क्रेता व्यवच्छिद्यते न पुनश्चौरस्य स्वामित्वमुत्पाद्यते तत् कयं मैथिल्यां रावणस्य स्वत्वाभावाद् 'दाशरथाय' इत्यत्र मुख्यमेव संप्रदानमित्याह - यद् वेति ।