________________
कातन्त्रव्याकरणम्
'वदनचन्द्रमा रोचयति लोचनचकोरम्' इत्यत्र वदनचन्द्रमा अधरसीधुं लोचनचकोराय रोचयतीत्येव प्रयोगः स्यात् ? सत्यम् । रुचिरत्रास्वादनार्थः । ततश्च लोचनचकोरस्य आस्वादकर्तृत्वं विवक्षितम् । “रुच्यर्थानां प्रीयमाणः" इति सूत्रं तु षष्ट्याः कर्मणो बाधकमिति टीकायामुक्तत्वान्नास्यात्र विषय इति । ‘सीधवे' इत्यत्र तादर्थ्यविवक्षया चतुर्थीति न दोषः । यस्मै धारयते इति । "धारेरुत्तमर्णः" (अ० १।४।३५) इति परः। ____ अयमर्थः- इनन्तस्य ‘धृञ् अवस्थाने' (१।५९९) इत्यस्य प्रयोगे उत्तमो यः स संप्रदानमिति । एतदनुसारेणैव यस्मै धारयते इत्युक्तम् । षष्ठ्या द्वितीयाया वा बाधकमिति । तथाहि 'विष्णुमित्राय गां धारयते' इति विष्णुमित्रस्य गां स्वस्मिन् स्थापयतीत्यर्थः । द्वितीयाबाधकपक्षे स्वरूपेणावस्थितां गां विष्णुमित्रः स्थापयति, तं देवदत्तः प्रयुङ्क्ते इति इन्द्वयविवक्षायां विष्णुमित्रस्य व्याप्यत्वं विवक्षणीयम् । ननु कथं विष्णुमित्रस्य व्याप्यत्वम्, इनन्तस्य कर्तृत्वात् ? सत्यम् । इनः कर्तृकर्मेत्यनेन कर्मत्वम्, तथाहि भवितुं न पार्यते, ध्रौव्यगतीत्यादेर्नियमविषयत्वात् ? सत्यम्, नात्र नियमविषयः शुद्धधातुना नियमकृतत्वाद् व्यावृत्तिरपि तस्य कतुरेव विवक्षणीयेत्यर्थः । गोशब्दोऽत्र भूमिवचनो न प्राणिवचनः, अन्यथा “अणावकर्मकाच्चित्तवत्कर्तृकात्" (अ० १।३।८८) इत्यनेन परस्मैपदमेव, नात्रात्मनेपदं स्यात् । गौर्धियते इति पत्री।
१. 'वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम्' इति पूर्वार्द्धम् । दरतिमिरमिति भयान्धकारम् । तथा च "दरोऽस्त्रियां भये श्वप्रे" (३।३।१८४) इत्यमरः। 'लोचनचकोराय रोचते'। अधरसीधुर्लोचनचकोरस्य प्रीतिं जनयतीति तं वदनचन्द्रमा रोचयतीत्यर्थविवक्षायाम् एवं प्रयोगः स्यादिति भावः । सत्यमित्यादि । अयमाशयः- अत्र तु प्रीतिहेतुतारूपा क्रिया, प्रीत्यनुकूलव्यापारश्च धातुमात्रेण प्रत्याय्येत, तत्रैव संप्रदानत्वमिति वस्त्वर्थः । अत्र तु धातुना प्रीतिमात्रमुच्यते, इनैव तदनुकूलव्यापारः प्रतीयते । अतोऽत्र इनर्थव्यापारजन्यप्रीतिरूपफलशालित्वात् कर्मत्वमेव न सम्प्रदानत्वमिति । यद् वा 'चैत्रं रोचयति मोदकः' इति ।
२. रुचिः स्वादे मयूखे च रुचिः शोभाभिलाषयोः (द्र०, मेदिनी० २८।८) इति कोशः । ३. संवत्सरादिना द्विगुणादिकं दास्यामीति कृत्वा यद् गृह्यते तद् ऋणम् ।
४. उपभोग्यत्वरूपसंबन्धेनेति शेषः । स्वरूप इति | रूप्यतेऽनेन इति रूपम्, विशेषणं स्वत्वमिति स्वत्वस्य विष्णुमित्रस्य रूपं स्वरूपं स्वत्वम्, तेन विष्णुमित्रस्य स्वत्वविशिष्टत्वेनावस्थितां गामित्यर्थः ।
५."अणावकर्मकाच्चित्तवत्कर्तृकात्" (अ० १।३।८८) इति ।न इ अनि, तस्मिन् अनौ । अनौ अनिनन्तकाले अकर्मकाच्चित्तवत्कर्तरि सति इनन्ते सति तस्मात् परस्मैपदं भवतीत्यर्थः । टीकायामप्येवं विवक्षा।