________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
अस्या एवार्थमाह- स्वरूपेणावतिष्ठते इति । तदेव स्पष्टयति - स्वभावतो न प्रच्यवते इति विष्णुमित्रस्य स्वत्वान्न प्रच्यवते इत्यर्थः ।
ह्नोतव्यं कञ्चिदर्थमित्यादि । ननु यत्र होतव्यार्थस्य ज्ञापनं नास्ति तत्र कथं स्यात् । यथा
-
अपह्नुवानस्य यन्निजामधीरतामस्य कृतां मनोभुवा । अबोधि तज्जागरदुः खसाक्षिणी निशा च शय्या च शशाङ्ककोमला ॥
५५
जनाय
( १ । ४९) इति नैषधे ।
न ह्यत्र ह्रोतव्यां निजामधीरतां जनाय बोधयतीति ? सत्यम् । ह्रोतव्यं कञ्चिदर्थं जनयतीति यदुक्तं पञ्जिकायाम्, तस्यायमर्थः ह्रोतव्यं कञ्चिदर्थं जनम् । अन्यथाप्रकारं बोधयतीत्यर्थः । ततश्चापहुवानस्य जनायेत्यत्र निजामधीरतामपह्नवपूर्वकं जनमन्यथा बोधयतीत्यर्थः । " राधीक्ष्योर्यस्य विप्रश्नः " ( अ० १ । ४ । ३९) इति शुभाशुभं दैवपर्यालोचनं विप्रश्नः। विविधप्रश्नो विप्रश्न इति भाषावृत्तिः । विप्रश्नपूर्वकं दैवपर्यालोचनं धात्वर्थः । " क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः " ( अ० १।४।३७) इति । क्रुधाद्यर्थानां प्रयोगे कोपस्थानं संप्रदानं भवतीत्यर्थः । क्रोधः कायवाग्विकारलक्षणः । क्रुधद्रुहावकर्मकौ, तत्र षष्ठ्यां प्राप्तायाम् अन्यत्र द्वितीयायां प्राप्तायां वचनम् । क्रोधेनापकृतिद्रहः । क्रोधेन चित्तक्षोभः ईर्ष्या । गुणिनोऽपि दोषाविष्करणमसूया । अत्र सूत्रेऽर्थग्रहणाज्जनाय कुप्यतीत्यादावपि संप्रदानं बोध्यम् । अथ 'अस्मान् द्वेष्टि, औषधं द्वेष्टि' इत्यत्र न कथं संप्रदानत्वम् ? नैवम् । अत्र धात्वर्थवाच्यः कोपो न प्रतीयते, किन्तु नाभिनन्दतीत्येव गम्यत इति न्यासकृता उक्तम् । एवं 'न क्षमते शत्रून्' इत्यपि सिद्धम् । यत्तु - 'द्वेष्टि प्रायो गुणिभ्योऽपि न च स्निह्यति कस्यचित् ' ( १८ ।९) इति भट्टिकाव्यम् । अत्रासूयार्थ एव विवक्षितः इति न दोषः इति शरणदेवः || २९५ ।
[समीक्षा]
' जिसे देने की इच्छा होती हैं, जिसे कोई वस्तु रुचिकर लगती है तथा जिसकी वस्तु (स्वत्व) अपने पास ऋण के रूप में रखी जाती है उसकी सम्प्रदानसंज्ञा पाणिनि तथा शर्ववर्मा दोनों ने ही की है । पाणिनि ने इसके लिए - "कर्मणा यमभिप्रैति स सम्प्रदानम्, रुच्यर्थानां प्रीयमाणः, श्लाघहुस्थाशपां ज्ञीप्स्यमानः, धारेरुत्तमर्णः,