________________
४९
नामचतुष्टयाध्याये चतुर्थः कारकपादः तादर्थ्यं दृश्यते - छात्राय ग्रन्थम् ईक्षते इति । तस्माद् "राधीक्ष्योर्यस्य विप्रश्नः" (अ० १।४।३९) इति न वक्तव्यम् । छात्राय प्रतिशृणोति, छात्रायाशृणोति । पूर्वं प्रार्थितवते छात्रायाभ्युपगच्छतीत्यर्थः । प्रत्यापूर्वः शृणोतिरभ्युपगमे वर्तते, स चाभ्युपगमश्छात्रार्थो भवतीति वचनेन “प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता" (अ० १।३।५९) इति किम् । पूर्वस्य धात्वर्थस्य प्रार्थनलक्षणस्य यः कर्ता छात्रादिस्तस्य किं सम्प्रदानसंज्ञाविधानेन, तादर्थ्यचतुर्थैव सिद्धत्वात् ।छात्राय क्रुध्यतीत्यादि । "क्रुधदुहेासूयार्थानां यं प्रति कोपः" (अ० १।४।३७) इति वचनाभावात् कथमिह सम्प्रदानत्वमित्याह - यस्मै कुप्यतीति वक्तव्यमिति। ननु तर्हि कोपार्थधातुप्रयोगे एव प्राप्नोति कथं द्रुहादीनां प्रयोगे, तेषामर्थान्तरवृत्तित्वात्, सत्यम् । द्रुहादीनामप्यर्थानां कोपप्रभवत्वात् कोपसामान्यं सर्वत्रास्तीत्यदोषः। वक्तव्यमिति । व्याख्येयम् । अत्रापि तादर्थ्यमस्तीति भावः । दातुमिच्छेत्यादि । तथा चोक्तम् -
अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्येनाप्तं ददातेस्तु संप्रदानं प्रकीर्तितम् ॥ सम्प्रदानं तदैव स्यात् पूजानुग्रहकाम्यया।
दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥२९५ । [क० च०]
यस्मै० । "कर्मणा यमभिप्रैति' स सम्प्रदानम्" (अ० १।४।३२) इति परसूत्रम् । अस्यायमर्थः। कर्मणा कर्मकारकेण करणभूतेन यमभिप्रैति संबनातीत्यर्थः । ननु कर्म कथं करणमिति चेत्, नैवं क्रियान्तरसंबन्धात् । तथाहि ददातिक्रियां प्रति कर्मत्वम् अभिप्रायक्रियां प्रति करणत्वमिति न दोषः । कर्मग्रहणाभावे कारकप्रस्तावात् क्रियायाः कर्माभिसंबन्धाद् ‘गां ददाति' इत्यत्र गोरपि स्यात् । न च परत्वात् कर्मसंहवास्ति बाधिकेति वाच्यम्, वचनसामर्थ्यात् 'पर्यायेण भविष्यति ? यदि 'यं सः' - ग्रहणं न
१. अभिसंबन्धमिच्छतीत्यर्थः। सम्बन्धश्च क्रियाजन्यकर्मनिष्ठस्वत्वफलभागित्वमेव स्वत्वफलभागित्वं स्वत्वफलनिरूपकत्वमेवोक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागितया दातुमिच्छाविषयो ब्राह्मण इति तस्य सम्प्रदानत्वमिति व्युत्पत्तिवादः। वस्तुतस्तु कर्मणा दानकर्मणा यमभिप्रैति तत्कर्मनिष्ठस्वत्वभागित्वेनोद्देश्यीकरोति तत् सम्प्रदानमिति । एवं च 'ब्राह्मणाय गां ददाति' इत्यादौ ब्राह्मणस्य गोनिष्ठस्वत्वभागित्वेनेच्छाविषयत्वात् संप्रदानत्वमिति । एतेन त्यक्तुस्त्यज्यमानद्रव्यस्य स्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वमिति पर्यवसितम् ।
२. कर्तुः संप्रदाने स्वव्यापारजन्यफलभागित्वरूपसंबन्ध इत्यर्थः । अत्र कर्तुः कर्मणि स्वव्यापारजन्यफलाश्रयत्वरूपसंबन्ध इत्यर्थः ।