________________
कातन्त्रव्याकरणम्
शब्देनाभ्युपगच्छति-करोमीति । तथा च 'गृणभ्योऽनुगृणन्त्यन्ये कृतार्था नैव मद्विषाः' इति । याचमानेभ्योऽपि पूर्वक्रियायाः कर्तृभ्यः कृतार्थत्वान्न मद्विधा अनुगृणन्ति संगिरन्ते । यद्येवम्, ब्राह्मणाय यद् दीयते तद् ब्राह्मणार्थं क्रियताम्, दित्साग्रहणमनर्थकम् ? सत्यम् । दातुमिच्छायां मा भूत्, कारकव्यपदेशार्थं च । “अकर्तरि च कारके संज्ञायाम्"(४।५।४) इत्यादौ यच्चान्यार्थमपि ददाति । यथा - 'रोगप्रशमनाय ब्राह्मणेभ्यो गां ददाति' इत्युभयत्र तादर्थ्यविवक्षापि तथैव ।।२९५।
[वि० प०]
यस्मै० । दित्सेति। दाञः सन्, द्विर्वचनम् । “सनि मिमी०" (३।३।३९) इत्यादिना स्वरस्येसादेशः, अभ्यासलोपश्च । “सस्य सेऽसार्वधातुके तः (३।६।९३), शंसिप्रत्ययादः" (४।५।८०) इति अप्रत्ययः । “अस्य च लोपः" (३।६।४९), "स्त्रियामादा"(२।४।४९) । विष्णुमित्राय गांधारयते इति ।धृञ् अवस्थाने (१।५९९) गौर्धियते स्वरूपेणावतिष्ठते स्वभावान्न प्रच्यवते, तमन्यः प्रयुङ्क्ते इतीन् । नात्र "श्लाघहस्थाशपां जीप्स्यमानः" (अ०१।४।३४) इति वचनमस्तीत्याह-कथमित्यादि । कञ्चिदर्थं ज्ञापयितुमिष्यमाणो बोधयितुमभिप्रेतो यो देवदत्तादिः स ज्ञीप्यमानस्तत्र वर्तमानाः श्लाघादयो नयतिवत् स्वभावतो द्विकर्मकाः अन्तर्भूतकारितार्था एवेति देवदत्तादेरपि कर्मत्वं प्राप्नोतीत्यालोच्य परिहारं वक्ष्यति - तादर्थ्यचतुर्थ्या सिद्धमिति । देवदत्ताय श्लाघते इति। आत्मानं परं वा श्लाघ्यं कथयतीति योऽर्थः स देवदत्तार्थो भवतीत्यर्थः । तथा छात्राय हुते इति ।ह्रोतव्यं कञ्चिदर्थं ज्ञापयति । यत्तज्ज्ञापनं तच्छात्रार्थं भवतीति । "प्रतिज्ञानिर्णयप्रकाशनेषु स्था" (द्र०, अ० ११३।२२-२३) इति रुचादित्वादात्मनेपदम् । छात्राय शपते इति ? सत्यम् । इदमिति ज्ञापयति मिथ्या निरस्यतीति यत् तन्मिथ्यानिरसनम्, तच्छात्रार्थं भवतीति । 'शपथे शप' (१।६०६; ३।१२२) इति रुचादित्वादात्मनेपदम् । यत्र तु तादर्थ्यं नास्ति तत्र द्वितीयैव, यथा - देवदत्तं श्लाघते, स्तौतीत्यर्थः । पुष्पेभ्यः स्पृहयतीति । 'स्मृह ईप्सायाम्' (९।१८९) चुरादावदन्तः, अस्य च लोपः । स्थानिवद्भावाद् गुणो न भवति ।
इह कर्मविवक्षापि दृश्यते - पुष्पाणि स्पृहयतीति । किं "स्पृहेरीप्सितः" (अ० १।४।३६) इति वचनेन । छात्राय राध्यति, छात्राय ईक्षते इति छात्रस्य शुभाशुभं पृष्टो दैवज्ञो दैवं पर्यालोचयतीत्यर्थः । तत्र यद् दैवपर्यालोचनं तच्छात्रार्थमेव । अदैवेऽपि