________________
नामचतुष्टयाध्याये चतुर्वः कारकपादः प्राप्ता | कथमित्यादि । श्लाघादीनां कञ्चिदर्थं ज्ञापयितुमिष्यमाणे कारके श्लाघादयः स्वभावान्नयतिवद् द्विकर्मका इन्नर्था एवेति कर्म प्राप्नोति । यो हि देवदत्ताय आत्मानं परं वा श्लाघ्यं कथयतीति योऽर्थः स देवदत्ताय श्लाघते इति । तथा च 'श्लाघमानः परस्त्रीभ्यस्तत्रागाद् राक्षसाधिपः' इत्यात्मानं श्लाघ्यं कथयन् परस्त्रीभ्य आगत इत्यर्थः ।
देवदत्ताय हुते । ह्रोतव्यं किञ्चिद् देवदत्तं ज्ञापयति । तथा देवदत्ताय तिष्ठते । आत्मानं स्थित्या ज्ञापयति, प्रकाशयति । प्रकाशने तिष्ठतौ रुचादिः । देवदत्ताय शपते । देवदत्तं किञ्चिद् उपलम्भयतीत्यर्थः । शपथे शपती रुचादिः । क एवमाह श्लाघादीनां विषयश्छात्रो बोधयितुमिष्टस्तदर्थाः श्लाघादय इति । विवक्षायाः प्राधान्यमाह - तादर्थ्यचतुर्था सिद्धमिति । यत्र तादर्थ्यं नास्ति तत्र तु द्वितीयामात्रम् – देवदत्तं श्लाघते, स्तौतीत्यर्थः । तथा स्पृहेश्च इप्सितो यस्तन्निमित्तं स्पृहास्तीति । इह तु व्याप्यविवक्षापि दृश्यते - पुष्पाणि स्पृहयतीति । राधीक्षोश्च कारकं नैमित्तिको यस्य सम्बन्धि शुभाशुभं पृष्टो दैवं पर्यालोचयतीति यद् दैवपर्यालोचनं तत् तदर्थं तस्येति । अदैवेऽपि तादर्थं दृश्यते – 'ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्' इति । छात्राय ग्रन्थमीक्षते इति । प्रत्यापूर्वस्य शृणोतेः कर्तुर्यः प्रार्थयिता ‘गां मे देहि' इति तत्रापि तादर्थ्यम् अस्तीति नावश्यं प्रार्थयितुरेव चतुर्थी तादर्थ्यविवक्षायां प्रतिबन्धकाभावात् । प्रत्यापूर्वो हि शृणोतिरभ्युपगमे वर्तते ।
छात्राय क्रुध्यतीत्यादि । यस्मै कुप्यतीति । यदर्थं कर्तुः कोपः, तत्र चतुर्थी सिद्धा | वक्तव्यं व्याख्येयमिति । द्रोहादीनां कोपप्रभवत्वात् कोपसामान्यमस्तीत्याह - यस्मै कुप्यतीति । विवक्षावशात् तादर्थ्यमेव न षष्ठी । व्याप्यविवक्षायां तु द्वितीया । संकुष्यसि मृषा किं त्वं दिदृखं मां मृगेक्षणे' देवदत्तमभिद्रुह्यति । क्रुधिद्रुही सोपसर्गावेव सकर्मकौ । 'भार्यामीय॑ति कार्येण मित्रमसूयति लिप्सया' इत्यत्रापि हेत्वन्तरसम्भवेऽपि कोपप्रभवमस्त्यनेकप्रत्ययनिबन्धनत्वात् कार्यस्येति मतम् । असूशब्दात् कण्ड्वादित्वाद् यण् । दोषाविष्करणमसूया | छात्राय संक्रुध्यते, नृपायाभिद्रुह्यते, भार्यायै ईय॒ते, मित्रायासूयते । तथा छात्रायातिक्रुद्धः, मित्रायाभिद्रुग्धः, भार्यायै ईय॒ितः, मित्रायासूयितः इति भावार्थप्रत्ययः कर्मणोऽविवक्षितत्वात् । यथा 'पुष्पेभ्यः स्पृह्यते' इति । तथा प्रत्यनुपूर्वस्य गृणातेस्तादर्थ्यस्यैव विवक्षा, न तु कर्मण इति । होत्रे प्रतिगृणाति, होत्रेऽनुगृणाति । पोत्रे प्रतिगृणाति, पोत्रेऽनुगृणाति । पूर्वं याचितवते शंसितवते वा अनुगृणाति