________________
४६
कातन्त्रव्याकरणम्
[दु० टी० ]
यस्मै० | दातुमिच्छा दित्सा | दाण् दाञ् वा, सन्, द्विर्वचनम्, “सनि मिमी ०" ( ३ | ३ | ३९) इत्यादिना अभ्यासलोपः स्वरस्येस् । 'भृत्यैर्ब्राह्मणेभ्यो गां दापयति, गुरुभिर्देवेभ्यः पूजां दापयति' । इनन्तत्वेऽपि दातुमिच्छाया अभिसंबन्धाद् भवत्येव । दातुमिच्छेत्यादि । तथा 'रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददाति' । तथा चाह -
"
अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्तेनाप्तं ददातेस्तु सम्प्रदानं प्रकीर्तितम् ॥
सम्प्रदानं तदैव स्यात् पूजानुग्रहकाम्यया ।
दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥
पुनर्वक्तव्यम् - सम्यक् प्रकर्षेण दीयते यस्मै इत्यन्वर्थत्वाद् रोचयति - धारयत्योरपि निरन्वया संज्ञा दृश्यते, तस्माद् दित्साग्रहणं कर्तव्यमेव । 'ब्राह्मणाय दानम्, ब्राह्मणस्य दानम्, ब्राह्मणे वा दानम्' इति तु विवक्षया स्यात् । यद्यपि रुच दीप्ती ( १ । ४७३) पठ्यते, यथा ‘दिवि रोचन्ते ज्योतींषि' इति । इह तु रुच्यर्थ एवाभिधानाद् 'देवदत्ताय’ रोचते मोदकः' इति देवदत्तस्य मोदको रुचिं करोतीत्यर्थः । व्यापारे विवक्षिते भेदे वा द्वितीयायां षष्ठ्यां वा प्राप्तायां चतुर्थ्यर्थं वचनम् । कश्चिदाह - 'देवदत्तं रोचते मोदकः' इति प्राप्नोतीति । देवदत्तं हि प्राप्य मोदको रुचिविषयो न सर्वमेव भिन्नेच्छत्वात् प्राणिनाम् । रोचतिरयं स्वभावादिनर्थत्वेऽपि वर्तते इति । तथा चाह -
हेत्वर्थे कर्मसंज्ञायां शेषत्वे चाप्यकारकम् ।
रुच्यर्थादिषु शास्त्रेषु सम्प्रदानाख्यमुच्यते ॥ इति ।
अन्यः पुनराह - अभिलाषजनकमोदकनिरपेक्षयापि यदा देवदत्तोऽभिलाषस्य कर्ता तदापीयं संज्ञेति । देवदत्ताय रोचते । देवदत्तो रुचिं करोतीत्यर्थः । तदा परापि कर्तृसंज्ञा न स्याद् इति प्रतिपत्तव्यम् । कथं रोचतेऽस्मै हरीतकीति । अत्रापि रुचः प्रतिहन्यमानस्य हरीतक्यां रुचिरस्तीति रोचतिरयमिनर्थपरः पूर्ववत् । यस्मै रोचते इति किम् ? देवदत्तो मोदकम् अभिलषति, मोदकमिच्छतीत्यर्थः । सम्बन्धविवक्षापि दृश्यते । राज्ञो रोचते घृतम्, न मन्त्रिण इति । गौध्रियते स्वरूपेणावतिष्ठते स्वभावान्न प्रच्यवते, तां देवदत्तं प्रयुङ्क्ते इतीन् । भेदे व्याप्यत्वे वा विवक्षिते षष्ठी द्वितीया वा