________________
२०२
कातन्त्रव्याकरणम्
[दु० टी०]
कर्तृ० । कारकविभक्तिरेवेयं द्वितीयातृतीययोरपवादः । भवतः शायिका, भवत आसिका' इति “पर्यायाहर्णेषु च" (४।५।८९) इति चकारेणाधिकृते भावमात्रे वुञ् । भवता शयितव्यम् । भवता आसितव्यम् इत्यर्थः । एवं वररुचेः कृतिः, ब्राह्मणस्य प्रादुर्भावः । कर्तृकर्मणोरिति किमर्थं करणे मा भूद् इति-शस्त्रेण भेत्ता | कृतीति किम् ? त्वया पच्यते, ओदनं पचति । द्वितीयातृतीययोर्विशेषानुपादानात् त्यादिषु कृत्सु च पर्यायः स्यात् । नैवम्, निष्ठादिषु विषयत्वात् । तर्हि अत्रैवेत्यादिपाठः क्रियतां "न निष्ठादिषु"(२।४।४२) इत्यादिशब्दः प्रत्येकमभिसंबध्यते इत्यालोच्याह - कृतीत्यादि । करणं कृतम् , कृतं च तत् पूर्वञ्चेति विग्रहः । कृतपूर्वम् अस्यास्तीतीन् । यद्यपि (कृतस्य) कटस्य कृतपूर्वमस्यास्तीति बुद्ध्यवस्थानिबन्धनो वाक्यव्यवहारः । तथापि क्तान्तमिदं तद्धितार्थे गुणीभूतं कटादिभिर्न संबध्यते, अतः क्रियावता क; तद्धितप्रत्ययास्तेन संबन्धः कटादीनां कर्मणां भवत्येव । कर्तुरस्य करोतीति क्रियाव्याप्यत्वाद् द्वितीयेति भावः।
अकर्मकत्वे सत्येव क्तान्तं भावाभिधायिवत् ।
अतः क्रियावता क; योगो भवति कर्मणाम् ॥इति । एतदपि तर्हि निष्फलं निष्ठाश्रयः प्रतिषेधो भविष्यति यथा गतं देवदत्तेन ग्राममिति । एवं सति मन्दधियां सुखार्थमेव कृद्ग्रहणमिति । नित्यग्रहणं सप्रयोजनं दर्शितमेव । ननु स्मृत्यर्थकर्मणीत्यतः एकविभक्तियुक्तमपि कर्मग्रहणं यथेतरयोर्योगयोरनुवर्तते, तथात्र “कर्तरि च कृति नित्यम्" इति कृते चकारेणानुकृष्यत एव ? सत्यम् । कर्मग्रहणं कर्मणि कर्मणीति प्रतिपत्त्यर्थम् । तेनोभयप्राप्तिके कृति कर्मण्येव षष्ठी सिद्धेति ‘आश्चर्यो गवां दोहोऽगोपालकेन' इति कर्तरि तृतीयेव । सम्बन्धविवक्षायां तु षष्ठ्या भाव्यमेव । आश्चर्यो गवां दोहोऽगोपालकस्य । अकाकारयोः स्त्रियां नायं नियमः । भेदिका यज्ञदत्तस्य काष्ठानाम् । चिकीर्षा देवदत्तस्य कटस्य । तदेतत् कथं संबन्धस्यैव विवक्षितत्वात् कुतः कर्तरि तृतीया ? एतस्यां स्मृतौ 'भेदिका देवदत्तेन काष्ठानाम्' इत्यपप्रयोगः । शेषे स्त्रीप्रत्यययोगे विभाषयेति न वक्तव्यम् । शोभना शर्ववर्मणः कृतिः, शर्ववर्मणेति संबन्धे षष्ठी, कर्तरि तृतीयेति । वर्तमाने क्ते षष्ठी न वक्तव्या, "न निष्ठादिषु" (२।४।४२) इति प्रतिषेधापवादः ।