________________
२०३
नामचतुष्टयाध्याये चतुर्थः कारकपादः 'राज्ञां मतः, राज्ञां बुद्धः' सापि संबन्धविवक्षायां सिद्धेति । भूतविहितस्य क्तस्य वर्तमानविहितः क्तः खलु धातुसामान्यविशेषभावेन बाधक एवेति मन्यमानेन केनचित् 'त्वया मतम्, मया ज्ञातम्' इत्यपप्रयोगः कृतः । मत्यर्थाद् वर्तमाने क्तः इति कर्तरि षष्ठ्या भाव्यम् । नैवम् । तत्र भूते क्तः सिद्धो वर्तमानेऽपीति सिद्धान्तः । तथा च ज्यनुबन्धेत्यादिसूत्रं प्रत्याख्यातम्, पूर्वपूर्वव्यापारे धातूपात्तमितरमाश्रित्य भूते निष्ठा स्यात् । शृङ्खलादिसंयोगोऽस्वतन्त्रफलोपलब्धः । स चापरिसमाप्त एव प्रारब्धापरिसमाप्तौ वर्तमानत्वमत्र शृङ्खलादिसंयोगलक्षणो बन्धो निष्ठित एवेति भूतप्रत्ययो युक्त इति कथं प्रत्याख्यानं कथं वापप्रयोगः स्यात् ।।३२६ ।
[वि० प०]
कर्तृ० । भवत इत्यादि । “पर्यायाहर्णेषु च" (४।५।८९) इत्यत्र चकारेणाधिकृते भावमात्रे वुञ्, ततः कर्तरि षष्ठी । 'भवता शयितव्यम्, भवता आसितव्यम्' इत्यर्थः । स्रष्टेति । सृज विसर्गे तृच् । “सृजिदृशोरागमोऽकारः" (३।४।२५) इत्यादिनाऽकारागमः, भृजादीनां षः। अथ किमर्थं कृद्ग्रहणम्, आख्यातप्रयोगे मा भूत् । त्वया क्रियते, कटं करोतीति । न चेह द्वितीयातृतीययोबधिकत्वमिति शक्यते वक्तुम्, तयोर्निष्ठादिषु चरितार्थत्वात् । विशेषविधानाभावाच्च कथं बाधकत्वम् । तर्हि नहि 'निष्ठादिषु' इत्युच्यते । आदिशब्दस्य प्रत्येकमभिसंबन्धात् त्यादेरपि वर्जनं भविष्यतीत्याह - कृतीत्यादि। करणं कृतम्, नपुंसके भावे क्तः । कृतं च तत् पूर्वं चेति कृतपूर्वम्, तदस्यास्तीति इन् । इह कर्ता तद्धितेनैकोक्त इति कर्तरि षष्ठीप्रसङ्गो नास्तीति । किन्तु कटात् कर्मणः षष्ठी स्यादिति प्रत्युदाह्रियते । ____ ननु कटस्य कृतपूर्वम् अस्यास्तीति बुद्ध्यवस्थानिबन्धने वाक्ये कटात् षष्ठी दृश्यते, समासे तु ततः कथं द्वितीया ? सत्यम् । उत्पन्ने तद्धिते क्तान्तस्य तद्धितार्थे गुणीभूतत्वात् कटादिसंबन्धो निवर्तत इति । क्रियावता तद्धितप्रत्ययवाच्येन का कटादिः संबध्यमानस्तक्रियया व्याप्यते इति कर्मत्वं सिद्धम् । यद्यपि कर्मणि क्तः, तथापि द्वितीया भवत्येव । तेन हि सामान्यं कर्म उक्तम्, न विशिष्टम्, कथं विशिष्टकर्मद्योतिका द्वितीया उक्तार्था । तर्हि कृतः कट इति वाक्ये क्तेन कथं विशिष्टकर्माभिधानमिति चेत्, तदयुक्तम् । कृत इत्यनेन सामानाधिकरण्यात् तद्धितवृत्तौ पुनरेकार्थीभावात् सामानाधिकरण्याभावे तद्धिताभिधेयस्य कर्तुः करोतिक्रियया