________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३०७ योग्यतया पाचक उच्यते, गुणशब्दश्च नैतादृशः, यतो नीलशब्देन नीलगुण एव प्रधानतया प्रत्याय्यते। तद्विशिष्टद्रव्यप्रतीतिस्तु आश्रयज्ञानं विना आश्रितस्य गुणस्यासंभवाद् इत्यत आश्रयस्य प्राधान्यम् । तेन ‘पटुकृपणः, कृपणपटुः, रथिदण्डी, दण्डिरथी' इत्यादिशब्दवद् 'देवदत्तः पाचकः, पाचको देवदत्तः' इत्यादयो यथेष्टं भवन्तीति ।
एवम् ‘आचार्यो देवदत्तः, देवदत्त आचार्यः' इत्यपि कामचारतः प्रयोजनीयम् इत्याचष्टे । तन्न, अस्यापि नीलशब्दवत् समानयुक्तिकत्वात् । तथाहि यथा गुणस्य द्रव्योत्पत्तिप्रभृतिविनाशपर्यन्तं स्थितेरभावाद् द्रव्यशब्दत्वाभावेन विशेषणत्वम्, तथा क्रियाशब्दानामपि । न हि देवदत्तादेरुत्पत्तिविनाशपर्यन्तं पचनकर्तृत्वयोग्यताऽस्ति, तस्माद् ‘देवदत्तः पाचकः' इत्यादि प्रयोग एव | उदयनाचार्य इत्यादयः प्रयोगास्तु उदयननामा आचार्य इति शाकपार्थिवादित्वान्मध्यपदलोपिसमासे साधवः इत्यलं बहुना | "पूर्वकालैकसर्वजरसुराणनवकेवलाः समानाधिकरणेन" (अ०२।१।४९) इति पाणिनिः । अस्यार्थः- एते पूर्वादयः शब्दाः समानाधिकरणेन परपदेन सह समस्यन्ते, एकादीनां द्वन्द्वं कृत्वा पश्चात् पूर्वकालशब्देनैकादीनां पुनर्द्वन्द्वः । अन्यथा एकादीनामल्पस्वरत्वादेकादन्यतमस्य पूर्वनिपातः स्यात् । अथ एर व कथन्न कृतमिति चेद् एकादिभ्यः पूर्वकालशब्दस्य पृथक्करणात् किञ्चिद् वैलक्षण्यं व्याख्येयम् ।
तथाहि एकादीनां शब्दस्वरूपाणामेव ग्रहणम्, पूर्वकालादीनां तु अर्थानां ग्रहणम् । [पूर्वकालेन तु पूर्वकालविशिष्टत्वमुच्यते ] । तेन कृष्टमदीकृतः, छिनप्ररूढ इति पूर्वकालविशिष्टमेव वृत्तौ दर्शितम्, पूर्वकालस्तु समासवाच्यः । ननु “विशेषणं विशेष्येण बहुलम्" (अ० २।१।५७) इति सामान्यसूत्रेण समासः सिध्यति, किमनेन ? सत्यम्, यत्र पदद्वयमेव विशेषणयोग्यम् तत्रैकादिशब्दानां पूर्वनिपातव्यवस्थापनार्थम् । यथा 'एकपण्डितः, जरत्पण्डितः' इत्यादि । तर्हि 'एकपत्नी, पुराणतरुः' इत्यादि कथमत्र सूत्रे भाषावृत्तौ दर्शितम्, गुणद्रव्ययोः समासे गुणवाचकस्यैव विशेषणत्वम् इत्युभयोविशेषणत्वाभावात् “विशेषणं विशेष्येण बहुलम्" (अ०२।१।५७) इत्यनेन सिद्धत्वात् । नैवम्, 'एकपण्डितः' इत्याद्यर्थं विधीयमानं सूत्रमेतदपि विषयीकरोतीति न्यायाद् उदाहृतमिति न दोषः । अस्मन्मते त्वेकादीनामभिधानादेव पूर्वनिपातः । न च खञ्जकुब्जादिवद् व्यवस्थेति । खञ्जकुब्जः, कुब्जखञ्जः इति ।