________________
कातन्त्रव्याकरणम् ननु कथं 'पुराणैकं देहि, कार्षापणैकं देहि' -
पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः।
तस्मान्मूर्खसहनेभ्यः पण्डितैको विशिष्यते ॥ इत्यादिप्रयोगः । "पूर्वकाल०" (अ० २।१।४९) इत्यादिना एकशब्दस्य पूर्वनिपातस्यैव योग्यत्वान्नैवं "येकयोः" (अ० १।४।२२) इति निर्देशाद् एकशब्दः संख्यावाचकोऽप्यस्ति, अन्यथा सर्वथा संख्येयपरत्वे संख्येयानां बहुत्वाद् दयेकयोरिति द्विवचनमुपपन्नं न स्यात् । “आ दशभ्यः संख्याः संख्येये" इति यदुक्तं तत् प्रायिकम् । ततः पणस्यैकम् इति षष्ठीसमासः । तर्हि एकशब्दस्य संख्यानवाचित्वात् कथं देहीति क्रियासंबन्धः, न हि तत्र पणस्यैकसंख्या देहीति पदार्थ: ? सत्यम्, धर्मधर्मिणोरभेदोपचारात् ।
[द्रव्याभिधायित्वमपीति देहीत्यादि क्रियान्वयो न विरुध्यते । अपप्रयोग इत्यन्यः । वैयस्तु पुराणशब्दस्यात्र सामान्योपात्तत्वात् कार्षापणवाचकस्यापि एकशब्देन सह समासे परत्वात् पुराणशब्दस्यैव पूर्वनिपातः । पुराणैक इति कथमिति चेत्, पुराणशब्दस्येह सूत्रे पाठेन परत्वाद् इत्याचष्टे । एवं जरत्शब्दस्यापि परत्वाज्जरदेक इति नियतपूर्वनिपात इति लभ्यते । अतो "जरदेकपुराणादेः" (कात० परि० स०४२) इति श्रीपतिसूत्रं युक्तमेव । अथ यदि परत्वादेव पुराणशब्दस्य पूर्वनिपातस्तदा परस्मिन् "पूर्वापर०" (अ० २।१।५८) इति सूत्रे वीरशब्दपाठात् कथं 'जगदेकवीरः, षड्वर्षेणैकवीरः' इत्यत्र माघप्रयोगे वीरशब्दस्य परनिपातः 'वीरैकः' इति प्रयोगस्य योग्यत्वात्, नैवम् । एकशब्दोऽत्र धर्मवचनस्तेनैकत्वस्याश्रयो वीर इत्याश्रयाश्रयिसंबन्धे षष्ठीसमासः इति न दोषः]।
“दिक्संख्ये संज्ञायाम्" (अ०२।१।५०) इति पाणिनिः। अस्याः -दिक्शब्देन दिक्प्रवृत्तिनिमित्तशब्द उच्यते संख्येति । संख्यावाचक उच्यते । तयोः समानाधिकरणयोः परपदेन संज्ञायामेव समास इति । “विशेषणं विशेष्येण बहुलम्" (अ० २।१।५७) इति सिद्धे यत् पुनरिदं वचनं तन्नियमार्थम् इत्याह - संज्ञायामेवेति । कथमित्यादीति | ननु कथं परमतेऽभिधानात् समास इत्युक्तम्, न हि तेनाभिधानमाश्रित्य पूर्वपुरुषादिकमसंज्ञायां साध्यते । किन्तु “पूर्वापरप्रथम०" (अ० २।१।५८) इत्यादिना साध्यते । अत्र