________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३०९
हेमकरः - ‘उत्तरपुरुषः' इत्येतदर्थमभिधानाश्रयणं 'पूर्वपुरुष:' इत्यादिकमपि विषयी - करोतीति न्यायात् ‘पूर्वपुरुषः' इत्यत्र व्यभिचारो दर्शितः । महान्तस्तु “विशेषणं विशेष्येण बहुलम्” (अ० २।१।५७ ) इत्यनेन " पूर्वापरप्रथम० " ( अ० २।१।५८) इत्यादिना च सिद्धे यत् “ दिक्संख्ये संज्ञायाम् " ( अ० २ | १ | ५० ) इति विधीयते तन्नियमार्थम् । दिग्वाचकस्य संज्ञायामेवेति । " पूर्वापर०" (अ० २ | १ | ५८ ) इत्यत्र तु देशकालवचनस्य ग्रहणम् । “दिक्संख्ये संज्ञायाम् ” ( अ० २ ।१ । ५० ) इत्यत्र तु दिग्ग्रहणात् कालाद्यर्था पूर्वादयो न गृह्यन्ते । किन्तु दिग्वाचकानां संज्ञायामेवेति नियमबलेनासंज्ञायां दिग्वाचकस्य समासो न स्यात् । समासार्थं परेणाभिधानमवश्यमङ्गीकर्तव्यमिति पञ्जीकृता व्यभिचारो दर्शितः इति न दोषः । ' पूर्वपुरुषः' इत्यादिषु आदिशब्देन चतुर्वर्णद्विपदाश्रितो विधिरिति अत्रापि व्यभिचार इति सूच्यते । एतद् उदाहरणत्रयं प्रति भाषावृत्तावपि कार्योऽत्र यत्न इत्युक्तम् ।
श्रीपतिस्तु अत्र " पूर्वापरस्यैव दिशः " (कात० परि० - स० ४७ ) इति सूत्रम् आचष्टे । अस्यार्थः- पूर्वापरस्यैव दिग्वाचिनः कर्मधारयो भवति संज्ञायामसंज्ञायां चेति । तत्तुच्छम्, संज्ञायाम् ' उत्तरकुरुः' इत्यत्र पाणिनिमते समासस्येष्टत्वेन नियमवैफल्याच्च । तथा ‘दक्षिणापथः, उत्तरापथः' इत्यत्र दक्षिणोत्तरयोराच्प्रत्यये सति “दिक्संज्ञायाम्” इत्यनेन समास इति शरणदेवोक्तत्वात् । "कुत्सितानि कुत्सनैः” (अ० २।१।५३) इति पाणिनिः । अस्यार्थः - कुत्सितानि कुत्सावाचकैः सह समस्यन्ते । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ० २ | १ | ५६ ) इत्यनेनैव याज्ञिकशब्दस्य पूर्वनिपाते सिद्धे यत् पुनरिदं सूत्रं तत् सामान्यस्यापि प्रयोगे यथा स्याद् इत्येतदर्थम्, तेन 'याज्ञिकः कितवः इव धूर्त:' इत्यत्रापि ' याज्ञिककितवः' इति समासो भवत्येव । न च धूर्तपदापेक्षया युक्तार्थ इति वाच्यम्, प्रधानसापेक्षे हि तस्य दृष्टत्वात् । ननु अस्मन्मते एतत्सूत्राभावे कितवादीनां विशेषणत्वात् पूर्वनिपातः प्राप्नोति । तत्कथं ‘याज्ञिककितवः' इत्याह - न चात्रेति । ननु यो याज्ञिकः स कितवः इत्युक्ते कितवस्यापि विशेषणत्वात् कदाचित् पूर्वनिपातोत्पत्तिः स्यादित्याह - कुत्सितानि कुत्सनैरेवेति । कुत्सितवाचीनि परभूतैरेव कुत्सावचनविशेषैरेव समस्यन्ते, अभिधानादिति भावः । पूर्वपदप्रवृत्तिनिमित्तस्य यदा कुत्सा गम्यते तदैवायं विधिरिति पाणिन्यनुसारिभिर्व्याख्यायते । अतः ‘चौरो वैयाकरणः' इत्यत्र वैयाकरणस्य कुत्साभावात् 'वैयाकरणश्चौरः' इति प्रयोगो न भवति । अपि तु 'चौरवैयाकरणः' इत्येव सामान्यसूत्रेण समासात् साधुरिति ।