________________
३१०
कातन्वव्याकरणम्
नन्नेवं सति ‘याज्ञिककितवः' इत्यादिकं नोदाहर्तुमुचितम्, याज्ञिकशब्दप्रवृत्तिनिमित्तस्य कुत्साप्रतीतेरभावात् ? सत्यम् । योऽयाज्ययाजने प्रवृत्तः स यज्ञशास्त्रं सम्यङ् न वेत्ति इति गम्यते । तेन याज्ञिकशब्दप्रवृत्तिनिमितस्य यज्ञशास्त्राध्ययनस्य तस्य जीवनस्य वा कुत्सा गम्यते इति न्यासः । एवं 'मीमांसकदुर्घटः' इत्यत्रापि नास्तिकत्वेन मीमांसाज्ञानमेव प्रवृत्तिनिमित्तं कुत्स्यते इति बोध्यते । “कुत्सितानि कुत्सनैः" (अ० २।१।५२) इत्यनेन पापाणकशब्दयोर्नियतपरनिपातः स्याद् इति नियतपूर्वपाठार्थं "पापाणके कुत्सितैः" (अ० २।१।५४) इत्यनेन पापाणकशब्योर्नियतपूर्वनिपातार्थं पाणिनिसूत्रान्तरम् । अस्यार्थः- पापाणकशब्दौ कुत्सितैः परपदैरेव समस्येते इति। तदस्मन्मतेऽभिधानादेव भविष्यतीत्याह – तथा पापाणकेत्यादि । “उपमानानि सामान्यवचनैः" (अ० २।१।५५) इति पाणिनिः । अस्यार्थः- उपमानानि सामान्यवचनैः परभूतैः सह समस्यन्ते । उपमानस्य विशेषणत्वात् “विशेषणं विशेष्येण बहुलम्" (अ० २।१।५७) इति सिद्धे यत् पुनरिदं सूत्रं विधीयते, तदुपमानस्य विशेष्यत्वविवक्षायां श्यामत्वस्य च विशेषणत्वविवक्षायां श्यामशस्त्रीति प्रयोगो मा भूदिति एतदर्थम् । अस्मन्मते तदभावात् श्यामशस्त्रीत्यपि प्रयोगः स्याद् इत्याह - तेनोपमालानीत्यादि । त्रिपदत्वाद् भिन्नाधिकरणत्वाच्चेति कथमिदमुच्यते यावता शस्त्रीशब्दो लक्षणया तत्सदृशे वर्तते इवशब्दस्तदर्थद्योतकत्वान्निरर्थकस्ततः पदद्वयोरेकार्थप्रयुक्तत्वात् कथं भिन्नाधिकरणत्वम् ? सत्यम् । भिन्नाधिकरणत्वादित्यनेन पक्षद्वयेऽपि पत्रिकायां सिद्धान्तः उत्थापितः । तथाहि शस्त्रीव श्यामेति इवशब्दसत्त्वे इवशब्दासत्त्वेऽपि न समासयोग्यवाक्यम् । तत्रेवशब्दसत्त्वपक्षेऽपि सिद्धान्तयति-त्रिपदत्वादिति ।इवशब्दाभावपक्षेऽपि लक्षणायां बीजाभावाद् उपमानोपमेयभावसंबन्धे षष्ठी प्राप्तेति तत्र सिद्धान्तयति-भिन्नाधिकरणत्वादिति । यद् वा सामानाधिकरण्याभाव एव भिन्नाधिकरणम् । तच्च इवशब्दस्य निरर्थकत्वादस्त्येवेति भावः । अथवा इवशब्देन सादृश्यं सम्बन्धश्चोच्यते इति यन्मते, तन्मते शस्त्रीशब्देन निजार्थोऽभिधीयते, तद्गतसादृश्यं संबन्धश्चेवशब्देन श्यामशब्देन श्यामगुणयुक्ता शस्त्रीति ।
ननु कथमिदमुच्यते यावता शस्त्रीशब्द एव शस्त्रीसदृशे वर्तते इवशब्दस्तु द्योतक एव, ततश्च या शस्त्री सा श्यामा सदृशीत्यैकाधिकरण्यं स्फुटमेव विद्यते ? सत्यम् । इवशब्दसत्त्वे त्रिपदत्वमेव समासयोग्यताभावे हेतुः । यदि त्रिपदत्वाभावार्थम् इहेव