________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
शब्दोऽपसार्यते, तदोपमानोपमेयसंबन्धद्योतकषष्ठ्युत्पत्तौ सत्यां व्यधिकरणत्वमेव स्यादिति भिन्नाधिकरणत्वाच्चेत्युक्तम् । यद् वा इवशब्द एव संबन्धसदृशवाचक यन्मतं तन्मते तत्रेवशब्देनैव षष्ठ्यर्थस्योक्तत्वात् षष्ठ्यनुत्पत्तावपि शस्त्रीवेत्यस्य श्यामशब्देन व्यधिकरणत्वं स्फुटमेवेति । तथा च काव्यप्रकाशकृता - यथेवादयः शब्दाः श्रुत्यैव षष्ठीवत् सम्बन्धं प्रतिपादयन्तीति अतो भिन्नाधिकरणत्वं स्फुटं संगच्छते । अन्यैश्च समासोऽभिधीयत एवेति । 'बाहुलता करपल्लवे' इत्यादौ लतादिभिरित्यर्थः । अत्रापि शूरादिपदापेक्षत्वादिति । नन्वेवं सति 'मुखचन्द्रो मनोरमः पुरुषव्याघ्रः शूरोऽयम्' इति प्रयोगो न स्यात्, सापेक्षत्वात् ? सत्यम् । समासं कृत्वा पश्चात् समुदायेन सह मनोरमादिपदान्वयो भवतीति परसूत्रस्य व्यभिचारमाह- किञ्चेति, पूज्यमानतामन्तरेणेति । ननु ‘सत्पण्डितः’ इत्यादौ सदादीनां परनिपाताभावार्थं “सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः " (अ० २ । १ । ६१) इति परसूत्रम् । अपूज्यमानतायां तु यथासंभवं “विशेषणं विशेष्येण बहुलम्” (अ० २।१।५७ ) इत्यनेन 'महाजनः, महोदधिः' इत्यादि भवत्येव, कथं परस्य व्यभिचारः । सत्यम्, सन्महदादिसूत्रे पूजायामिति सिद्धे कर्मप्रत्ययं विधायाक्षरगौरवं चाश्रित्यं पूज्यमानैरित्यनेन यदुत्तरपदं विशेषयति । तद् बोधयति - सदादयः पूज्यमानैरेव समस्यन्ते, नान्यैरित्यवधारणेन 'महाजनः, महोदधिः' इत्यत्र “विशेषणं विशेष्येण बहुलम् " ( अ० २।१।५७ ) इत्यनेन प्राप्तोऽपि समासो निवर्तते इति । अभिधानमेवाभ्युपगन्तव्यम् इति पञ्जीकृत आशयः ।
३११
षष्ठीसमासविधानार्थम् " अर्द्ध नपुंसकम्” (अ० २।२।२) इति पाणिनिसूत्रं खण्डयित्वा ‘जातस्य मासः' इति षष्ठीसमासविधानार्थं सूत्रान्तरं खण्डयति कालवाचिनः शब्दाः इत्यादि । ननु सामान्यशब्दस्य जातिवचनत्वेन 'फाला इव तण्डुलाः' इत्यत्र तण्डुलत्वसामान्यवचनस्य सत्त्वादस्य सूत्रस्य विषयः कथन्न स्यादिति चेत्, नैवम् । सामान्यं हि अनेकसाधारणमुच्यते । इह चोपमानस्य श्रुतत्वात् तस्य चोपमेयापेक्षत्वाद् उपमानोपमेययोः साधारणो यो धर्मः स एव सामान्यं विज्ञायते इत्येतदेवाह - इह श्यामगुणेति । उभयसाधारणत्वादिति उपमानभूता या शस्त्री, उपमेयभूता च या देवदत्ता, तदुभयोः साधारणो यो धर्मः श्यामत्वमित्यर्थः । ' फाला इव तण्डुलाः' इति फालवद् दीर्घास्तण्डुला इत्यर्थः । ननु यद्यत्र समासो न स्यात् तदा कथं 'विद्यासन्ध्या' इत्यादौ विद्येव या सन्ध्या सा विद्यासन्ध्येति समासः, श्यामाशब्दवत् सन्ध्याशब्दस्य