________________
३१२
कातन्त्रव्याकरणम्
सामान्यवृत्तित्वाभावात् । तथा तप्तमिव तप्तम्, तप्तं च तद् रहश्चेति तप्तरहसमिति राजादिषूदाहरिष्यते । अत्रापि रह:शब्दस्य सामान्यवृत्तित्त्वाभावादिति । सत्यम्, बहुवचनाद् व्याघ्रादित्वाद् वा समास इति । "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (अ० २।१।५६) इति पाणिनिः । अस्यार्थः- उपमितस्योपमानापेक्षितत्वाद् व्याघ्रादीनामुपमानत्वमपि गम्यते, तेनोपमेयं पूर्वपदं व्याघ्रादिभिरुपमानभूतैः परपदैः समस्यते । उभयसाधारणधर्मवाचकशब्दस्य यदि प्रयोगो न विद्यते, यथा – 'करपद्मम्' इति । सामान्यसूत्रेणैव सिद्धे यदिदं विधीयते, तदुपमानभूतस्य विशेषणस्य परनिपातार्थम् । __अस्मन्मते तदभावाद् विशेषणस्य पूर्वनिपात एव स्यादित्याह - तथोपमितमित्यादि । ननु यदि विशेषणत्य परत्वं पूर्वत्वं च स्यात् तदाऽनियमे कष्टं स्यादित्याह – अथवेति । पूर्ववदिति यथा 'याज्ञिककितवः' इत्यत्र कितवशब्दस्य विशेष्यत्वमभिधीयते, तथाऽत्रापीति को व्याघ्र इव यः पुरुषः इति । शस्त्री चासौ श्यामा चेतिवदस्यापि उपचारेण वाक्यार्थं दर्शयति । पुरुषश्चासावित्यादि । तर्हि कथं वृत्तौ पुरुषो व्याघ्र इवेति वाक्यं दर्शितम् इत्याशङ्क्याह -पुरुषो व्याघ्र इवेति, एवमन्यदपीति । मुखचन्द्रादय इत्यादि | ननु परेण व्याघ्रादिभिरिति विशेषोपादानात् तेषामेव परनिपातः क्रियते । भवन्मते व्याघ्रादिगणकृतविशेषाभावादन्ये वामपि परनिपातः स्यादिति चेद् भवत्येवेति एतदेवाह - न चेत्यादि । व्याघ्रादिभिरन्यैश्च समासोऽभिधीयते इति यदुक्तं तदेव जयादित्येन आकृतिगणत्वेन साध्यते इति भावः । ननु व्याघ्रादेराकृतिगणत्वमुच्यते, तदा कथम् अन्यैश्चेत्युक्तम् । अन्यैश्चेत्यनेनोक्तानामपि आकृतिगणत्वेनैव ग्रहणात् । नैवम्, व्याघ्रादिभिरिति यदुक्तं तेन गणपठित एव गृहाते इति। तस्मादिति। भवन्मतेऽपि आदिग्रहणे ग्रहीतव्ये यस्मादभिधानमेव शरणम् । तस्मात् तदेव शर्ववर्ममते "श्रेयः" इति परसूत्रे सामान्याप्रमाणे इत्यस्य व्यावृत्त्या यत् साध्यते, तदन्यथैवेत्याह- यदपीत्यदि । शूरादिपदसापेक्षत्वादिति। ननु सापेक्षत्वादसमास इति कथमुक्तं प्रधानसापेक्षे समासस्येष्टत्वात्। यथा'राजपुरुषः शोभनः' इत्यादि । अत एव भाषावृत्तावपि।
ननु सापेक्षत्वादेव समासो न भविष्यति किं प्रतिषेधेन, तस्मादयमेव प्रतिषेधो ज्ञापयति-प्रधानसापेक्षे समासो भवतीति, अन्यथा प्रतिषेध एव व्यर्थः स्यादित्युक्तमिति? सत्यम्। परमते सामान्याप्रयोगे उपमानभूतस्य व्याघ्रादेः परनिपातार्थं वचनमिदम् । ततश्च यत्र सामान्यभूतशूरादिपदप्रयोगः क्रियते, तत्रानेन सूत्रेणोपमानभूतव्याघ्रादेः