________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३१३
परनिपातो निषिध्यताम्, “विशेषणं विशेष्येण बहुलम् " ( अ० २।१।५७ ) इत्यनेन समासे ‘व्याघ्रपुरुषशूरः’ इति कथन्न स्यात् न च सापेक्षत्वान्न भवतीति वाच्यम् । 'सामान्याप्रयोगे' इत्यनेन मुख्यसापेक्षे समासस्य ज्ञापितत्वात् । तस्मादत्रावश्यं वक्तव्यं बहुलवचनान्न भवतीति । एवं सति अस्मन्मतेऽपि ' पुरुषो व्याघ्र इव शूरः' इत्यत्रानभिधानादेवासमास इति । यत्तु पत्रिकायां सापेक्षत्वादित्युक्तम्, तत् प्रथमकक्षायामेव बोध्यम्। ननु यदि प्रधानसापेक्षेऽप्यभिधानादसमासः, कथन्तर्हि 'मुखचन्द्रो मनोरमः, शूरोऽयं व्याघ्रपुरुषः' इत्यादौ समासः ? सत्यम् । येन धर्मेणोपमानोपमेयभावस्तद्धर्मवाचकशब्दस्याप्रयोग एवास्य सूत्रस्य विषयः । धर्मान्तरवाचकशब्दप्रयोगे तु समासः स्यादेव। तेन ‘मुखचन्द्रमनोरमः' इत्यादौ यदि आह्लादिगुणेनोपमीयते, तदा मनोरमादिशब्दप्रयोगेऽपि समासोऽविरुद्ध इति । यदि मुखं चन्द्र इव मनोरमम् इति मनोरमत्वेनोपमीयते तदा न समास इति दिक् ।
ननु ‘युवतिसरिता’ इति माघप्रयोगे “ उपमितं व्याघ्रादिभिः” (अ० २।१।५६) इत्यनेन कर्मधारये “कर्मधारयसंज्ञे तु” (२/५/२० ) इत्यादिना पुंवद्भावः कथन्न स्यात् ? सत्यम् । नात्र युवतिरिति स्त्रियां तिप्रत्ययः, किन्तु यौतेरौणादिकवतिप्रत्यये युवतिरिति निपातितमिति कुतः प्राप्तिरिति । " पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च" (अ० २ | १ | ५८ ) इति पाणिनिः । अस्यार्थः - पूर्वादयः शब्दाः समानाधिकरणेन समस्यन्ते । सामान्यसूत्रेण सिद्धे यत् पुनरिदं विधीयते तत् 'पूर्वपण्डितः' इत्यादौ विशेषणयोः समासे पूर्वादीनामेव पूर्वनिपातार्थम् । अन्यथा खञ्जकुब्जादिवद् व्यवस्था । यत्तु ‘पूर्वभार्यः' इति भाषावृत्तावुक्तं तत्तदर्थं क्रियमाणमेतदपि विषयीकरोतीति न्यायात् । तन्न वक्तव्यमित्येवाह - पूर्वापरेत्यादि । अस्मन्मतेऽभिधानात् ' पूर्वपण्डितः’ इत्येव भवति न पण्डितपूर्वः इति । "श्रेण्यादयः कृतादिभिः” (अ० २।१।५९) इति पाणिनिः । अस्यार्थः - एते श्रेण्यादयः कृतादिभिः परपदैः समस्यन्ते । श्रेण्यादयस्तु च्व्यर्थवृत्तय एव गृह्यन्तेऽभिधानात्। च्व्यर्थवृत्तित्वं तु कृतभूतशब्दाम्यां सह समासे सति बोध्यम्, अन्येन सहासंभवात् । च्व्यर्थस्तु द्विविधः - च्व्यन्तोऽच्व्यन्तश्च । तत्र च्व्यन्तस्य "ऊर्यादिडाचोऽपि" (अ० १ |४ | ६१ ) इत्यनेन गतिसंज्ञायां सत्यां “कुगतिप्रादयः” (अ० २ । २ । १८) इत्यनेन नित्यसमासोऽस्त्येव अतोऽच्व्यन्तस्यैव ग्रहणमिति । “पूर्वापराधरोत्तराण्येकदेशिनैकाधिकरणे" (अ० २।२।१ ) इति पाणिनिः । षष्ठीसमासबाधकमिदं