________________
३०६
कातन्त्रव्याकरणम्
सत्यम् । यत्रोभयोर्विशेषणविशेष्यभावस्तत्रैवायं समासोऽभिधानादाश्रीयते । नहि तक्षकस्य सर्पो विशेषणं तक्षकत्वस्य सर्पत्वाव्यभिचारेण सामान्यवाचकत्वाभावात् । नीलोत्पलादौ तु नीलस्य विशेष्यत्वम् उत्पलस्य विशेषणत्वमपि घटते । तथाहि सामान्यनीलगुणवाचकस्य नीलशब्दस्यार्थ उत्पलशब्देनोत्पलत्वावच्छेदेनोपस्थाप्यते इति उत्पलस्य विशेषणत्वम् । एवम् उत्पलशब्दजनितविशेषबुद्धिविषयत्वान्नीलस्यापि विशेष्यत्वं बोध्यम् । अथ तर्हि विशेषणम् उत्पलं विशेष्यमित्युक्तम् | उक्तरूपेणोभयोरेव विशेषणत्वविशेष्यत्वलाभात् ? सत्यम् । यद्यप्यर्थद्वारा उभयोर्विशेषणत्वविशेष्यत्वयोः साम्यम्, तथापि गुणद्रव्ययोः समासे सति द्रव्यशब्दस्यैव विशेष्यत्वं लोकप्रसिद्धमिति युक्तमुक्तं पञ्याम् । ननु तथापि विशेषणं पूर्वमिति वचनाभावादुत्पलशब्दस्यापि पूर्वनिपातः कथं न स्यात् ? सत्यम् । 'नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते' इति न्यायाद् विशेषणस्य पूर्वत्वं सिद्धम् । ननु नाम्नां युक्तार्थः समासः, स चापेक्ष्यापेक्षकभावलक्षणः । तथा च श्रीपतिः- 'तत् तेन सह युक्तार्थं यत् पदं यदपेक्षते' । अत्र नीलोत्पलादौ नीलशब्देनोत्पलमनपेक्ष्य नीलगुणविशिष्टं द्रव्यमेवाभिधीयते । उत्पलशब्देन च नीलम् अनपेक्ष्य सामान्योत्पलत्वाविशिष्टं द्रव्यमिति भिन्नार्थयोर्नीलोत्पलशब्दयोः परस्परनिरपेक्षयोर्युक्तार्थत्वाभावात् कथं तुल्याधिकरणत्वमित्याह -- अनयोरित्यादि । अनयोर्विशेषणविशेष्यभूतयोर्नीलोत्पलशब्दयोः प्रत्येकं व्यवच्छेद्यव्यवच्छेदकभावेन विशेषणविशेष्यभावेनैकस्मिन्नर्थे नीलगुणविशिष्टोत्पले प्रयोक्तृभिः प्रयुक्तयोस्तुल्याधिकरणत्वमित्यर्थः । __अयमभिप्रायः- यद्यपि नीलगुणविशिष्टेऽलिकज्जलादौ सामान्येन नीलशब्दो वर्तते ।उत्पलशब्दश्चोत्पलत्वविशिष्टे द्रव्ये, तथापि प्रत्यक्षेणाधिगते नीलगुणविशिष्टोत्पल एव द्वयं प्रयुक्तमिति । न चैकेनैव नीलशब्देन नीलगुणविशिष्टोत्पलशब्दस्योक्तत्वाद् उत्पलशब्दो व्यर्थ इति वाच्यम् । प्रतिपत्तुः सन्देहव्युदासाय शब्दद्वयप्रयोगस्यावश्यकत्वात् । अन्यथा वक्त्रा नीलमित्युक्ते कस्मिन् नीलशब्दः प्रयुक्त इति प्रतिपत्रा निश्चेतुं न शक्यते अलिकज्जलादेरपि नीलत्वात् । ननु पाचकादिक्रियाशब्दानामपि विशेष्यनिघ्नतया नीलादिगुणशब्दवद् अस्वातन्त्र्यात् कथं देवदत्तः पाचक इत्यादौ तस्य विशेष्यभावः । अत्र कश्चित् पाचकादिक्रियाशब्दानां गुणशब्दादस्त्येव विशेषः । तथाहि पाचकः' इत्यादौ कर्तरि वुण्प्रत्ययेन कर्तुर्मुख्यता क्रियाया गौणता प्रतिपाद्यते । अतोऽत्र पचनकर्तेव पाचकशब्दस्य प्रधानमर्थः स्वातन्त्र्याद् भवत्येव । तथा च अपचन्नपि सूपकारः पचन