________________
कातन्त्रव्याकरणम्
क्रयाक्रयिका, फलाफलिका, पुटापुटिका, मानोन्मानिका । ह्रस्वस्य दीर्घता | पूर्वत्वनियमार्थं वचनत्रयम् ।। ५८।
५९. शाकपार्थिवादिश्च अयञ्च मध्यपदलोपी कर्मधारयः साधुर्भवति । शाकः शक्तिः प्रधानमस्येति शाकप्रधानः, पृथोरपत्यमित्यण-पार्थवः, शाकप्रधानः पार्थवः शाकपार्थवः इति पातञ्जलाः । पृथिव्याः स्वामी पृथिव्यां ख्यातो वा पृथिव्याः स्वामिनि तत्राख्याते चेत्यण, तस्येदमित्यपरे-शाकपार्थिवः । एवं घृतपूर्णो वोटि: घृतवोटिः । सक्तुसैन्धवः, ओदनपाणिः, घृतपूर्णो घटः घृतघटः । कुतपोपलक्षितः सौश्रुतः कुतपसौश्रुतः । एवम् अजातौल्वणिः, षष्टिमौद्गल्यः, मुखयुक्ता नासिका मुखनासिका । एवं मर्यादाभिविधिः । वर्णाश्रयो विधिः वर्णविधिः, त्रिरूपा जगती त्रिजगती । एवं त्रिवलीति मतम् । अविशिष्टं श्रितम् अर्धश्रितम् इत्यादिराकृतिगणोऽयम् ।। ५९।
६०. परस्य च कडारादेः कडारादेः पूर्वस्य परस्य च कर्मधारयो भवति । कडारवाडवः, वाडवकडारः । कुन्तक्षत्रियः, क्षत्रियकुन्तः । कुमारक्षत्रियः, क्षत्रियकुमारः । काणवृषलः, वृषलकाणः । तुरगखञः, खञ्जतुरगः । खलतिकठः, कठखलतिरित्यादि ।।६०।
६१. मयूरव्यंसकादीनि एतानि समासरूपाणि साधूनि भवन्ति । मयूर इव व्यंसको धूर्तः मयूरव्यंसकः । एवं छात्रव्यंसकः । कम्बोज इव मुण्डः कम्बोजमुण्डः, यवनमुण्डः । उच्चैश्च नीचैश्च उच्चनीचम्, एवम् उच्चावचम् । न किञ्चनेत्यव्ययेनापि समासे निपातनाद् अभिधेयलिङ्गता-अकिञ्चनः, कापुरुषः । न किञ्चित् पुरुष इत्यर्थः । न किञ्चनास्यास्तीत्यकिञ्चनः । “अकिञ्चनास्ते गुणिनो ये सभायामनादृताः" | नास्य कुतो भयमस्तीति अकुतोभयः । "इहामुत्र च स श्लाघ्यः प्रजा यस्याकुतोभयाः" । स्नात्वाकालकः, पीत्वासुहितः, प्रोष्यपापीयान् । कारिकाकृत्य, क्त्वो यप् च गणपाठात् । विस्पष्टपटुः । एवं परिगाढकृशः, नितान्तक्षामः, नित्यभीरुरित्यादि समासत्वात् । स्नात्वाकालकः, स्नात्वाकालकीयं धनम्, पैत्वासुहितीयं धनम्, प्रेष्यपापीयसः, प्रेष्यपापीयसं धनम्, मयूरव्यंसकादित्वात् । परमोऽकिञ्चनः, परमोऽकुतोभयः इत्यसमास एव, तत्कथमेतौ