________________
परिशिष्टम् - २
६१७
बहुव्रीहिणा समर्थितौ कथञ्च स्नात्वा कालकादीनि वाक्यान्येवेति मत्वा समासोऽत्र प्रत्याख्यातः । तथा एहीहेत्यत्र एहीहं वर्तते, एहि वाणिजमिति नियोगो यस्यां क्रियायां सा एहिवाणिजा क्रिया । एवम् अपेहिवाणिजा, एहिस्वागता, अपेहिस्वागता, प्रोहकटा, प्रोहकर्दमा, आहरचेला, आहरवसना, आहरवनिता । यथा अश्नीतपिबतेति प्रयोगो यस्यां क्रियायां सा अश्नीतपिबता । एवं खादतमोदता, पचतभृज्जता, हसतजल्पता । अहमेव पुरुषोऽत्रेति सम्भावनायाम् आहोपुरुषिका । इह वृद्धिरपि निपातनात् अहं पूर्वमत्रेत्याविष्क्रिया अहंपूर्विका अहं प्रधानमत्रेति अहङ्कृतिः, अहमहमिका । एवमन्येऽपि || ६१ |
६२. तद्धितोत्तरपदसमाहारेषु द्विगुः
एष्वेव द्विगुर्भवति तद्धिते विषयभूते । पाञ्चनापितिः, पञ्चगर्गरूप्यः । उत्तरपदे परे – पञ्चगवधनम् | समाहतिः समाहारः, स तु समूह एव तद्वितविषयत्वादेव सिद्धे समाहारग्रहणमभिधेयार्थम् । पञ्चग्रामी, पञ्चगवी, पञ्चमाली, पञ्चवाडवी, पञ्चराजी, पञ्चपूली, पञ्चगजी, पञ्चमाणवकी । पञ्चकुमारि, पञ्चयुवतीति स्त्रीप्रत्ययस्य लुग् मा भूत् । तत्र च द्रव्यबहुत्वेऽपि समूहालम्बनमेकत्वं सिद्धम् । यथा शतं यूथम् । समूहस्येव तुभेदे द्वित्वबहुत्वे स्यातामेव । द्वे पञ्चपूल्यौ, दश पञ्चपूल्य:, तथा द्वे यूथे, पञ्च शतानीति भाष्येऽप्युक्तम् एकशेषे प्रतिषेध इति, न त्विह समाहारशब्दः कर्मसाधनस्तदा पञ्च पूल्यः समाहृताःपञ्चपूल्य इति बहूनां प्राधान्याद् बहुत्वमेव स्यात् । पञ्चमाली' इत्यनुपसर्जनत्वाद् ह्रस्वश्च न स्यात् || ६२ |
"
६३. दिक्पूर्वोऽसमाहारे
समाहारवर्जिते तद्धितादौ दिक्शब्दपूर्वको द्विगुर्भवति । पूर्वस्यां शालायां भवः पौर्वशालः । एवम् औत्तरशालः । " दिक्पूर्वाण्णः" इति णः । उत्तरगवप्रियः, उत्तरसखप्रियः। असमाहार इति किम् ? उत्तरासां शालानां समाहारः ।। ६३ ।
६४. नञस्तत्पुरुषः
पूर्वस्य नञो निषेध्येन सह तत्पुरुषो भवति । इदमेतन्न भवतीति प्रतिषेधो ऽस्य विषयः । न ब्राह्मणोऽयमब्राह्मणो राजन्य: । इह सादृश्यकृता तदन्यता नञाख्यायते । अभक्षको गृञ्जकः, अपेया सुरा । इह अव्यवहार्यतानिषेध एव नत्रा -