________________
६१८
कातन्त्रव्याकरणम्
ख्यायते । अनृतमधर्मः । अनिक्षुरिति । रूढिविषयता तदन्यता पूर्वस्य इत्येव कृतं न पीतं न न तरां ब्राह्मणः, न हि ब्राह्मणः, नो ब्राह्मण इत्यादिवदप्राप्ते वचनम् । अकर्मधारयत्वाद् ‘अपथी, अपथिकः' इतीनिकौ स्यातामेव ।। ६४ ।
६५. प्राप्तापन्नादिभिर्द्धितीयायाः एभिः सह पूर्वस्य द्वितीयान्तस्य तत्पुरुषो भवति । सखिप्राप्तः, सख्यापन्नः, ग्रामगतः, कष्टश्रितः, कूपपतितः, कान्तारातीतः, तरङ्गात्यस्तः, कृच्छ्रात्यस्तः, गत्यर्थात् सर्वत्र कर्तरि क्तः । ग्रामं गमी ग्रामगमी, भविष्यति गमेरिन् । ग्राममागामी ग्रामागामी । आङि गमेणिन् । सुखेप्सुः, पुत्रेप्सुः, ओदनबुभुक्षुरित्यादि । क्वचित् क्रियाविशेषणस्यापि - विस्पष्टपटुः, परिगाढकृशः, नितान्तक्षामः, निकामसुखी, नित्यभीरुरित्यादि । तदुक्तं समासविधिषु लक्षणमुपलक्षणम् इति । एभिरिति किम् ? ओदनं भुक्तवान् । कटं चक्राणः । 'हंसमण्डलद्युतिजिष्णुरधृतोष्णवारणम्' इति शैषिक्याः षष्ठ्याः समास इति । निष्ठादिष्वपि नेष्यते, यथा – ‘सत्यानुरक्ता नरकस्य जिष्णवः, तव सर्वगतस्य सम्प्रति क्षितिपः क्षिप्नुरभीषुमानिव' ।। ६५ ।
६६. कालस्यावन्तुनाभिविधौ अभिविधौ द्वितीयान्तस्य कालस्यावन्त्वन्तेन सह तत्पुरुषो भवति । मासं स्थायी, मासस्थायी । मासं सुखी, माससुखी । अहोरात्रकामुकः । अवन्तुनेति किम् ? मासं स्थितवान् ।।६६।
६७. क्तेन द्वितीयान्तस्य कालस्य क्तान्तेन सह तत्पुरुषो भवति । मासं स्थितः, मासस्थितः । कालादिलक्षणं कर्म । अहरतिसृता, रात्र्यारूढा मुहूर्ताः ।। ६७।
६८. क्षेपे खट्वायाः द्वितीयान्तायाः खट्वायाः क्षेपविषये क्तान्तेन सह तत्पुरुषो भवति । अननुज्ञातो गुरुणा खट्वामारूढः खट्वारुढः, लङ्घिताचारत्वादविनीतोऽभिधीयते । क्षेप इति किम् ? खट्वामारूढो गुरुरध्यापयति ।। ६८।।
६९. तयात्यादेः अतिक्रान्ताद्यर्थे वर्तमानस्यातिप्रभृतेरव्ययस्य तया द्वितीयया सह तत्पुरुषो भवति । अतिक्रान्तो नदीम् अतिनदिः, अतिकमण्डलुः, अतिकर्ता, अतिवधुः । एषु