________________
परिशिष्टम् -२ बहुव्रीहौ नित्यं कः स्यात् । अतिराजः, अतिसखः, अतिगरः इत्यत्रान्न स्यात् । अतिधर्मः, अतिजायः इत्यत्र धर्मस्य धर्मन्, जायाया जानिश्च स्यात् । अधिरूढं ज्यान् अधिज्यं धनुः, उद्गतो वेलाम् उद्वेलः समुद्रः, वेलाब्धिकूलम् ।।६९ ।
७०. प्राप्तापन्नयोरच्च द्वितीयान्तेन सह प्राप्तापन्नयोस्तत्पुरुषो भवति । स्त्रियामनयोरातोऽच्च भवति । प्राप्तः प्रियां प्राप्तप्रियः । एवं प्राप्तपञ्चमिः, प्राप्तवधुः, प्राप्ततन्त्रीः, प्राप्तराजः, प्राप्तधर्मः, प्राप्तगवः, प्राप्तजायः । नैते बहुव्रीहिणा सिद्धाः । एवम् आपन्नप्रियः, आपन्नपञ्चमिः इत्यादि । प्राप्ता प्रियं प्राप्तप्रिया, आपन्ना प्रियम् आपन्नप्रिया । आभ्यां द्वितीयासमासस्तूदाहृत एव ।।७०।
७१. तृतीयायास्तत्कृतार्थेन गुणवचनेन तेन कृतं तत्कृतं तेनेति तृतीयान्तेनाभिधीयमानं गिर्यादि प्रकृतं वस्तु परामृश्यते । शब्दस्य प्रवृत्तिनिमित्तं स्वार्थः । गियविस्तृतीयान्तस्य गिर्यादिना सम्पादितो यस्य स्वार्थस्तेन गुणवचनेन सह तत्पुरुषो भवति । गिरिनाम क्रीडनकं तेन काणो. गिरिकाणः । एवं लोष्ट्रेण काणः, आतपश्यामः, अक्ष्णा काणः । तत्कृतेति कर्तृकरणयोस्तृतीयायाः समासः । इह तु आभ्यामन्यत्र तृतीया । बहुव्रीहौ तु काणाक्षः इत्युपसर्जनत्वात् । गुणवचनेनेति किम् । दध्ना मांसलः, श्रमेण क्षामः । गुणे वर्तित्वा तन्निमित्तीकृत्य यो गुणिनि वर्तते स गुणवचनः ।।७१ ।
७२. पूर्वावरार्थादिभिः एभिश्च तृतीयान्तस्य तत्पुरुषो भवति । मासेन पूर्वः मासपूर्वः, मासेनावरः मासावरः । द्यूतेनार्थः द्यूतार्थः । एवं मासोनः, मासविकलः, बन्धुविधुरः, रथशून्यः, दण्डकलहः, वानिपुणः, वाक्श्लक्ष्णः, वाक्शूरः, द्रुमसङ्कटः, मदमलीमसः, प्रकृतिकृपणः, शब्दसंकुलः, अर्थपण्डितः । हिरण्याढ्यो वणिक् । विरहदुर्बलः, स्वेदाः, जरामन्थरः, त्रासविह्वलः, वयोज्येष्ठः, पञ्चोत्तरम्, पञ्चाधिकम्, वर्षाधिकम् इत्यादि शिष्टाचारतोऽनुसरणीयम् । भवत्यर्थं कृञर्थं वाऽपेक्ष्य सर्वत्र कर्तृत्वं करणत्वं च । एभिरिति किम् ? मासेन परः, मासेन कनीयान् ।।७२ ।