________________
१२०
कातन्त्रव्याकरणम्
७३. कर्तृकरणयोरवन्त्वव्ययेन कृता कर्तृकरणयोर्विहितायास्तृतीयाया वन्चव्ययवर्जितेन कृता सह तत्पुरुषो भवति । छात्रकृतम्, छात्रसुकरः, छात्रदुष्करः, छात्रविलूनः, रथव्रज्याऽस्य, हर्षजागरास्य, पुलाकपक्वः, कडङ्गरपाकः । मिश्रयतेरल् – गुडमिश्रः, पादेन ह्रियते पादहारकः । बाहुलकत्वात् कर्मणि वुण नित्यसमासश्च सञ्ज्ञात्वात् । अनयोरिति किम् ? पुत्रेणागतः, कमण्डलुना शिष्यः, पुष्येण मतः, केशैः प्रसितः । अवन्त्वव्ययेनेति किम् ? दात्रेण लूनवान् । दात्रेण कृत्वा । अलं रथेन । गन्तुं समयः । घृतेन भोक्तुं कालः | मूलकेनोपदंशं मूलकोपदंशमिति वक्ष्यते ।।७३।
७४. येन प्रायेण यप्रत्ययेन कृता सह तृतीयायाः प्रायेण बहुलं तत्पुरुषो भवति । बुषोपेन्ध्यम्, घनघात्यम्, काकपेया नदी । श्वलेह्यः कूपः इति पूर्णतायाम् । दन्तच्छेद्यं दधि, पाणिच्छेद्यं पयः, सूचिभेद्यं तम इति सुघनतायाम् । बाष्पच्छेद्यं तृणम् । पाणिविमृज्याः कण्टकाः, ओष्ठावलोप्यं मांसम् इति मृदुत्वे | दात्रच्छेद्यः प्रस्तरः इति निन्दायाम् । कठिनत्वं हि प्रस्तरस्य गुणः ।।७४ |
७५. एकान्नविंशत्यादीनि एतानि तृतीयातत्पुरुषसमासरूपाणि साधूनि भवन्ति । एकेन न विंशतिः एकान्नविंशतिः । एकानविंशतिः । एकान्नत्रिंशत्, एकाद्नत्रिंशत्, एकान्नशतम्, एकाद्नशतम् । एकस्य एकादित्यादेशे पञ्चमो वा । तथा अर्धेन चतस्रोऽर्धचतस्रो मालाः ||७५।
७६. दध्योदनादीनि एतान्यन्तर्भूतक्रियान्तराणि तृतीयातत्पुरुषरूपाणि निपात्यन्ते । दधना मिश्रितमोदनं दध्योदनम् । एवं दधिसक्तवः । रसौदनम्, मांसौदनम्, तक्रौदनम्, सूपौदनम्, शाकौदनम् इत्यादि । इह व्यञ्जनविशेषाणामन्नविशेषैः समासः । गुडेन मिश्रा धानाः गुडधानाः । एवं मधुलाजाः, फलितपृथुकाः, उदकसक्तवः, गुडचूर्णम् इत्यादि । इहापि पिण्डितद्रव्येण पिण्डीकरणयोग्यस्य गुडादेः समासः । अश्वेन युक्तो रथः अश्वरथः, वडवारथः, वाहि (ह्ली) करथः, लुलापशकटम् इत्यादि । इह यानेन रथादिना वाहनस्य समासः । दध्ना पूर्णो घटः दधिघटः । एवं गुडस्थाली, गुडगर्गरी,