________________
परिशिष्टम् - २
६२१
धान्यकुसूलः, माषपेटकः, शाटकमञ्जूषा इत्यादि । इह भाण्डे तत्पुरुषद्रव्यस्य दध्यादे: समासः । एवमन्येऽप्यनुसर्तव्याः ।।७६।
७७. तयाऽवप्रभृतेः तया तृतीयया सह अवप्रभृतेरव्ययस्य समासो भवति । अवक्रुष्टं कोकिलया अवकोकिलम्, श्रूयतेऽवक्रुष्टं सशब्दीकृतं कोकिलैः अवकोकिलं वनम् । परिणताः संवत्सरेण परिसंवत्सरा व्रीहयः । अधिगतोऽध्यक्षेणाध्यक्षो घटः । प्रतीतोऽक्षेण प्रत्यक्षः पटः, परिणद्धं वीरुधा परिवीरुत्, सुसङ्गतो वेलया सुवेलो नाम गिरिः । वेलेह जलधिसीमोच्यते । क्रुष्टाद्यर्थे वृत्तिरेषां स्वाभाविकी ।।७७।
७८. प्रकृत्या चतुर्थ्या चतुर्थ्यन्तस्य विकारस्य प्रकृतिवाचिना सह तत्पुरुषो भवति । यूपाय दारु यूपदारु, कुण्डलहिरण्यम्, पिठरमृत्तिका, भस्मगोमयम् । प्रकृत्येति किम् ? धर्माय तपः, प्रशमाय विद्या | भर्तृहरिणाऽप्युक्तम् - प्रकृत्या विकृतिर्यस्माच्चतुर्थ्यन्तात् समस्यते इति । यूपादेरुपादानकारणं द्रव्यमिह प्रकृतिरुच्यते । कथम् ‘अश्वघासः, रन्धनगृहम्, नाट्यशालाः, क्रीडातडागः, शयनपर्यङ्कः, परिश्रमस्थली, विश्रामगृहम्' इति प्रतिविहितं भाष्ये | अश्वघासादय इति षष्ठीसमासाः । तथा 'गोहितम्, गोसुखम्' हितसुखाभ्यां षष्ट्यपीह प्रमाणम् | वचनमिदं तु तादर्थ्यविषये प्रकृतिविकारभावे प्रायिकसमासार्थम् । ‘रन्धनार्थं भाण्डम्, रन्धनार्था स्थाली, रन्धनार्थः पिठरः' इति रन्धनमर्थः प्रयोजनमस्येति वहुव्रीहिः । महदर्थ इति महत्यर्थः प्रयोजनमस्येति वाक्यम्, अतुल्याधिकरणत्वान्नाकारः ।।७८ ।
७९. बलिरक्षितदेयादिना च। अनेन चतुर्थ्यास्तत्पुरुषो भवति । 'कुवेरबलिः, गोरक्षितं तृणम्, देवदेयं पुष्पम्, वरप्रदेया कन्या, पितृदानम्' इत्यादि | तादर्थेऽधिकारार्थं सम्प्रदानार्थं च वचनम् । अश्वघासादयोऽपीह वा मन्तव्याः ।।७९ ।
८०. तया पर्यादः तया चतुर्थ्या सह परिप्रभृतेरव्ययस्य तत्पुरुषो भवति । परिग्लानोऽध्ययनाय पर्यध्ययनः, उद्युक्तः संग्रामाय उत्संग्रामः, अलं कुमार्य अलंकुमारिः, अलंसखः,