________________
६२२
कातन्वव्याकरणम्
मग.
अलंगवः इति नित्यत्वात् । यथा बहुनदीक इति । एषां ग्लानाद्यर्थे वृत्तिः स्वाभाविकी ।। ८०।
८१. भीतादिना पञ्चम्याः भीतादिना सह पञ्चम्यन्तस्य तत्पुरुषो भवति । वृकभीतः, वृकभयम्, वृकभीतिः, वृकभीः, वृकभीरुः, अश्वपतितः, शाखापेतः, गृहनिर्गतः, पापजुगुप्सुः, व्यसनापोढः, क्रोशपरः । आलानमुक्तः, बन्धविरहार्थो मुचिरकर्मकः, वृकापत्रस्तः, शाखाच्युतः, वेदरहितः, पापविरतः, तल्लब्धः, तप्राप्तः, तदन्यः, तदितरः, तदन्तरः । तदनन्तरमित्यादिकं शिष्टाचारतोऽनुसरणीयम् । भीतादिनेति किम् ? गुरोरध्येता । ग्रामादूढम् । प्रायाधिकारात् - प्रासादात् पतितम्, पर्वतात् पतितमिति वाक्यमेव ।। ८१ ।
८२. क्तेन स्तोकादेः क्तान्तेन सह पञ्चम्यन्तस्य स्तोकादेस्तत्पुरुषो भवति । स्तोकान्तिकदूरार्थः कृच्छं च स्तोकादिः । स्तोकान्मुक्तः, अन्तिकादूढम्, दूरात् पतितम्, विप्रकृष्टात् पतितम्, समीपादाहृतम् । परत्वादिहाप्यनेन समासः- कृच्छ्राल्लब्धम् ।। ८२।
८३. तया निरादेः तया पञ्चम्या सह निरादेश्च तत्पुरुषो भवति । निर्गतो ग्रामाद् निग्रामः, अपगतं शाखायाः अपशाखम्, विच्युतो यूथाद् वियूथः, एवं विरथः । एषां गताद्यर्धे वृत्तिः स्वाभाविकी || ८३।
८४. षष्ठ्याः कृच्छेषयोः अपादानादिसंज्ञाभिरनाघ्रातोऽनालिङ्गितो लिङ्गार्थतया अनाख्यातः कारकमकारकं वाऽर्थः शेषः स एव स्वाम्यादिसंबन्ध इति चोच्यते । कृप्रयोगे शेषे च या विहिता षष्ठी तस्यास्तत्पुरुषो भवति । प्रजानन्दथुः, कुमारक्रीडा । जनप्रमदः, युवतिजागरा, ओदनपाकः, तथा मातृस्मरणं तण्डुलोपस्कारः । चौरप्रहरणमिति स्मृत्यादिकर्मण्यपि कृति कृद्योगलक्षणैव षष्ठी-मृणालखादिका सहकारभञ्जिका इति क्रीडायां नित्यं संज्ञात्वात् । शेषे च राजच्छत्रम्, पलाशशाखा, मृद्भाण्डम्, घृतभाण्डम्, मासस्य जातः मासजातः कुमारः । एवं पक्षजाता कन्या । परिमाणं हि कालः, परिमाणिनं प्रति षष्ठ्यन्ततामासादयति । यथा त्र्यहस्य दधीदम्, पञ्चाहस्यायं कुमारः, वर्षशतस्यायं ब्राह्मण इति । जातस्य मास: परिमाणम् इति विग्रहे समासोऽयमिति