________________
परिशिष्टम् -२
६२३ मतेऽपि परिमाण्येव समासार्थ इति भाष्यादावुररीकृतत्वादिह नार्थो भिद्यते । जातस्य मासः परिमाणमित्यत्र तु परिमाणसम्बन्धे साक्षात् षष्ठीयमिति कुतोऽस्य मासेन समासः । परिमिततात्पर्यविरहे तु जातमासमृतः । एवं 'मातृभूतः, पितृभूतः' इति भूतादेरुत्तरपदविषयैव सदृशार्थतेति नित्यसमासः । पञ्चालस्वामी, विदेहाधिपतिः, अङ्गेश्वरः, गोदायाद इति स्वाम्यादिवाक्येनापि शैषिक्येव षष्ठी । अनयोरिति किम् ? मातुः स्मृतवान्, प्रियस्याधीतवान्, तण्डुलानामुपस्कृतवान्, चौरस्योत्क्रथितवान् ।एषु स्मृत्यादिलक्षणा कर्मणि षष्ठी । सर्पिषो ज्ञातवान्, घृतस्य परिपूरितवान् । एषु करणे षष्ठी | 'ओदनतृप्ताश्छात्राः, पयःपूर्णो घटः' इति तृतीयासमासः ।। ८४ ।
८५. निर्धार्येण गुणिनातिशये अतिशये विवक्षिते निर्धारणीयेन गुणवचनेन सह निर्धारणविहितायाः षष्ठ्यास्तत्पुरुषो भवति । सर्वेषामतिशयेन शुक्लं सर्वशुक्लम् । गवामतिशयेन कृष्णा गोकृष्णा | शुक्लानामतिशयेन शुक्लं शुक्लशुक्लम् । पुरुषाणामतिशयेनोत्तमः पुरुषोत्तमः । एवं मुनिप्रवरः, स्नेहोत्तमं सर्पिः। अतिशयाभिधाने विधिरयमिति तद्धिताभिहितेऽतिशये न स्यात् - वस्त्रयोः श्वेततरम्, वस्त्राणां श्वेततमम् । गुणान्तरेण तरतमयोर्लोपश्चेत्येके | तन्मते श्वेतयोः श्वेततरम्, श्वेतश्वेततरम्, श्वेतश्वेतम्, श्वेतानां श्वेततमं श्वेतश्वेततमम्, श्वेतश्वेतम् ।। ८५।
८६. सर्वपश्चात्प्रभृतिष्वेवाव्ययेन सर्वपश्चात्प्रभृतिष्वेवाव्ययेन सह षष्ट्यास्तत्पुरुषो भवति । सर्वेषां पश्चात् सर्वपश्चात्, सर्वोपरि, यदुपरि, तदुपरि, 'पर्वतोपरि यद् वारि तत्कृते सोन्मनायते' । कृतेऽव्ययं निमित्तभावे वर्तते । तत्कृते, तदनु, प्रारूं इति नित्यं राजदन्तादित्वात् परस्य पूर्वत्वं च । नियमः किम् ? तिनस्तूष्णीम्, प्रजानां दिष्ट्या, ग्रीष्मस्य नक्तम्, ग्रीष्मस्य दिवा, वृक्षस्योपरि, गिरेरुपरिष्टात्, छात्रस्य पुरस्तात्, छात्रस्य पुरः, छात्रोपकुम्भम्, ज्येष्ठानुपदम् इति अव्ययीभावस्यानव्ययत्वात् ।। ८६ ।
८७. न गुणे गुणिवृत्तैरसंख्यया गुणिनि वृत्तैर्गुणमात्रे वर्तमानैः सङ्ख्यावर्जितैः सह षष्ठ्यन्तस्य समासो न भवति । पटस्य शुक्लः, जलस्य शीतः, 'शैत्ये शीतं नपुंसकम्' इति एके ।