________________
६२४
कातन्त्रव्याकरणम्
काश्यपेन तु शुक्लमधुरशीताः, एवं रूपरसस्पर्शाः इति गुणमात्रेऽपि पुंस्त्वमुक्तम् । घृतस्य सुरभिः, पूगस्य कषायः, मरीचस्य कटुः । इह शुक्लत्वादिषु गुणेष्वेव शुक्लादयो वर्तन्ते । गुणिवृत्तैरिति किम् ? 'हिरण्यरूपम्, फलरसः, चन्दनगन्धः, दुन्दुभिघोषः, वायुस्पर्शः, शाखासंयोगः, हेमगरिमा, आकाशमहिमा' नैते तद्वति जातु वर्तन्ते । असंख्ययेति किम् ? गोविंशतिः, गोशङ्खः, गोशतम्, वृद्धस्य शुक्लं शिरः, आढ्यस्य मांसलं वपुः, कृपणस्य मलिनः कायः, छात्रस्य मेदुराः केशाः, वृषलस्य शतं गावः, बालस्य दन्तुरमास्यम्, तरुणस्य मसृणं मुखम् इति शिरःप्रभृतिना वृद्धादेः साक्षात् सम्बन्धो न तु शुक्लादिनेत्यसमासः । न तु सापेक्षत्वं विशेष्यापेक्षित्वे षष्ठीसमासस्येष्टमेव । यथा राजमन्त्रिणो ब्राह्मणाः, तपस्विश्रेष्ठो राजन्य इति । गौरवादेस्तु गुणिनि वृत्त्यभावाद् उदरगौरवम्, शरीरशैत्यम्, गात्रलाघवम्, गगनमलिनिमा, गण्डपाण्डुता, वदनसौरभम्, अङ्गसौरभम्, शिलाश्यामलता, दन्तच्छदारुणिमा इत्यादि न्याय्यमेव ।
मतमेतत्तन्त्रान्तरेऽपि समर्थितम् । भाष्ये तु भावप्रत्ययान्तेनापि शौक्लादिना प्रतिषेध एव प्रमाणम् । छात्रस्यैकस्य कम्बलः इति कम्बलाभिसंबन्धे छात्रात् षष्ठीयमित्येकेन सह कृतः समासः । एवमन्यत्रापि एकाधिकरणत्वे मन्तव्यम् । गुणा इह रूपरसगन्धस्पर्शप्रकारा एव परिशिष्यन्ते ।। ८७।
८८. कर्तर्यकन अकप्रत्ययान्तेन सह कर्तरि विहितायाः षष्ट्यास्तत्पुरुषो न भवति । भृत्यस्य शायिका, विप्राणां भोजिका | कर्तरीति किम् ? सक्तुपायिका, पायसभोजिका, पूपभक्षका च उत्पत्स्यते । इह बुञव प्रतिषेधः परिशिष्यते ।। ८८ ।
८९. कर्मण्ययाजकादिभिः याजकादिवर्जितैरकप्रत्ययान्तैः सह कर्मणि षष्ट्यास्तत्पुरुषो न भवति । ओदनस्य पाचकः, रात्रेः शायकः, वर्षशतस्य जीवकः । अयाजकादिभिरिति किम् ? ब्राह्मणयाजकः, देवपूजकः । इनन्तादिङो वुण - वेदाध्यापकः, आचार्यपरिचारकः, तत्प्रयोजकः इत्यादि । 'जातिवाचकः, सम्प्रदायावबोधकः, वित्तग्राहकः, प्रेषकः, प्रेरकः' इत्यादौ तु शैषिक्याः समासः, तथा 'दन्तलेखकः, नखलेखकः, तैलपायिका'