________________
परिशिष्टम् -२
६२५ इति नित्यं रूढित्वात् । वचनं त्विदं कर्मणि षष्ठ्याः समासप्रतिषेधार्थम् । भर्तृहरिणा तु भाषायां प्रत्याख्यातमेवेदम् ।। ८९ ।
९०. तृचा च तृजन्तेन कर्मणि षष्ट्यास्तत्पुरुषो न भवति । ग्रामस्य गन्ता, कटस्य कर्ता । 'तत्कर्ता फलभुग् यतः, भीष्मः कुरूणां भयशोकहर्ता' इति च शैषिक्याः समासः । इदमपि भाषायां भर्तृहरिणा प्रत्याख्यातम् ।। ९०।
९१. कर्तृप्रयोगे नियमार्थायाः उभयप्राप्ती कर्मण्येवेति या विहिता षष्ठी तस्याः कर्तृप्रयोगे तत्पुरुषो न भवति । ओदनस्य पाकश्छात्रेण, भारस्य वहनं भृत्येन, गुरोरुपासना शिष्येण, कटस्य कृतिः पामरेण । कथं सम्बन्धाभिधानं त्वतल्भ्यामिति वार्तिकं शैषिक्याः समासश्चेत् त्वतल्भ्याम् इति कर्तरि षष्ठी स्यात्, उभयप्राप्तेरभावात्, तर्हि क्रियते इत्युपस्करणीयम् । अर्थेहा दरिद्राणाम्, पायसभोजिका विप्राणाम्, क्षीरपिपासा कुमाराणामिति नेयं नियमार्था षष्ठीति समासः स्यादेव । ओदनपाकादिषु शैषिक्याः समासश्चेत् - ओदनपाकश्छात्रस्येत्यनुभयप्राप्तौ कर्तरि षष्ठी स्यादेव । कर्तृप्रयोग इति किम् ? इध्मव्रश्चनम्, पलाशशातनम्, शब्दानुशासनम्, तीर्थगमनम्, गोदोहनी, सक्तुधानी ।।९१।
९२. शत्रानाभ्यां च आभ्यां च सह षष्ठ्यास्तत्पुरुषो न भवति । भाषाणामश्नन्, नटस्य शृण्वन्, मित्रस्योपकुर्वन्, मित्रस्योपकुर्वाण': । इयमपि शैषिक्येव षष्ठी । रजकदातव्यं वस्त्रम्, ब्राह्मणदातव्यम् आसनमिति तव्येन समासः स्यादेव । वर्तमानाधिकरणयोः क्तेन तु योगेन शैषिकी, नापि कृच्छ्रुतिविहिता षष्ठीत्यसमास एव छात्राणामिष्टः, मन्त्रिणां बुद्धम्, राज्ञां पूजितः, छात्रेष्टम्, राजपूजितः इति अतीते तेन तृतीयासमासः । भाष्ये तु अनुबन्धादिभ्योऽतीते क्तो नास्तीति समर्थितम्, तदन्येषामनिष्टम् इति वृद्धैरेभ्योऽतीतक्तस्य प्रयुक्तत्वात् ।। ९२।
९३. निर्धार्यपूरणाभ्याम् आभ्यां च षष्ट्यास्तत्पुरुषो न भवति । पुरुषाणां शूरः, गवां क्षीरा । निर्धारणेऽपि शैषिक्येव षष्ठी, किन्तु सप्तम्या बाधितेति तत्रान्वाख्याता निर्धारणे