________________
६२६
कातन्त्रव्याकरणम्
पञ्चम्यपवादः षष्ठीति मते निर्धार्यग्रहणम् इहाकरणीयं विधेरप्रसङ्गात् । छात्रस्य द्वितीयः, छात्रस्य षष्ठः, छात्रस्य दशमः । भिक्षूणां सङ्घतिथः इति पूरणे तिट् । प्रायाधिकाराद् आत्मचतुर्थः पूर्वचतुर्थः, तद्वर्गपञ्चम इत्यादि ।। ९३ । ९४. ङसावयविना पूर्वस्यैव पूर्वादि:
ङसा षष्ठ्येकवचनान्तेनावयदिना सह पूर्वस्यैव पूर्वादेरवयवस्य तत्पुरुषो भवति । पूर्वः कायस्य पूर्वकायः । एवम् अनरकायः, उत्तरकायः, अधरकायः । अवध्यवधिमत्सम्बन्धे दिग्लक्षणा पञ्चमी, अवयवसम्बन्धे षष्ठ्येव स्यात् । सायोभागोऽह्नः सायाह्नः । तथा मध्याह्नः, मध्यन्दिनम् इति राजदन्तादित्वात् । पूर्वस्यैवेति किम् ? कायस्य पूर्वम्, कायस्योत्तरम्, कायस्यापरम् का स्याधरम् । ङसेति किम् ? पूर्वाणि कायानाम् । अवयविनेति किम् ? पूर्वं छात्रस्य, अपरमुपाध्यायस्य, स्वस्वामिसम्बन्धे षष्ठीयम्। पूर्वशालमिति नपुंसकम् अकर्मधारयत्वात् । न चाधरोत्तरयोरसंज्ञायां कर्मधारयो भवति || ९४ |
I
९५. परस्य च तुयदिः
तुर्यप्रभृतेः पूर्वस्य परस्य च षष्ठ्येकवचनान्तेनावयविना सह तत्पुरुषो भवति । तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षायास्तुर्यं भिक्षातुर्यम् । एवं भिक्षाचतुर्धम्, चतुर्थभिक्षा, भिक्षाद्वितीयः, द्वितीयभिक्षा, भिक्षातृतीयः, तृतीयभिक्षा । तुरीयम् इहेत्येके पठन्ति । पूर्वस्य परस्य तुरीयस्य षष्ठ्यसमास एवेति वृद्धाः । मध्यकायः, कायमध्यम्, तलपादः, पादतलम्, अग्रपादम् पादाग्रम्, तुर्यशालम् इत्यादि नपुंसकं पूर्ववत् । पूरणे षष्ठीसमासो नास्तीति परस्य चेति वचनम् || ९५ । ९६. नपुंसकस्यार्द्धस्य
समभागार्थोऽर्द्धशब्दो नपुंसकं पूर्वस्य परस्य च षष्ठ्येकवचनान्तेनावयविना सह तत्पुरुषो भवति । अर्धमाषः, माषार्द्धम्, अर्धकर्षः कर्षार्द्धम्, अर्धमाषौ, मासस्यार्द्धे माषार्द्धे । एवम् अर्धमाषाः, माषार्धानि । परस्य नायं समास इति मतम् । पूर्वार्द्धं मया भक्षितम् । निशार्द्धमतीतं चेत्यादि च भाष्यादौ तु प्रयुक्तम् । अर्द्धस्नातोऽर्द्धवृद्धोऽर्द्धजरतीत्यसाकल्यवृत्तेरर्द्धस्य तृतीयासमासः । ध्रुवमनयोरर्द्धेन
"