________________
परिशिष्टम् - २
६२७ वैषम्यं मिथो भावि सा खल्वर्द्धन पुमानिति वाक्येऽपि तत्प्रयोगो दृश्यते । नपुंसकस्येति किम् ? अझै गृहस्य गृहार्द्ध इति शैषिकीलक्षणः समासः स्यादेव । इसेति किम् ? अर्धं मासानाम् । अर्द्धसेनम्, अर्धशालम् इति नपुंसकम् अकर्मधारयत्वात् ।। ९६।
९७. पक्वादिभिः सप्तम्याः पक्वादिभिः सह सप्तम्यास्तत्पुरुषो भवति । स्थालीपक्वम्, छायाशुष्कम्, काम्पिल्यसिद्धः, आलानबद्धः, वाप्यां नद्याम् अश्वः वाप्यश्वः, नद्यश्व इति भाष्यम् । एवम् अक्षशौण्डः, अक्षधूर्तः, अक्षकितवः, व्यवहारदक्षः, आचारकुशलः, कपटप्रवीणः, व्यवहारचतुरः, संग्रामसाहसिकः, ग्रामान्तर इत्यादिराकृतिगणः। पक्वादिभिरिति किम् ? ग्रामे तिष्ठन्, संग्रामे युध्यमानः, स्थाल्यां पाचयिता, व्याकरणेऽधीती ।।९७।
९८. कृत्येन येनावश्यके अवश्यम्भावे गम्यमाने कृत्यसंज्ञकेन यप्रत्ययेन सह सप्तम्यास्तत्पुरुषो भवति । मासदेयं धनम्, मासान्तेऽवश्यं दातव्यमित्यर्थः । एवं प्राह्णगेयं साम, शैशवप्रदेया कन्या, प्रभातपाठ्यं यजुः । कृत्येनेति किम् ? अश्विन्यां जागर्या, वर्षासु नाव्यः शोणः । येनेति किम् ? पर्वसु स्नातव्यम् । आवश्यक इति किम् ? निशि हार्यं वित्तम्, हर्तुं शक्यम् इत्यर्थः ।। ९८।।
९९. क्तेन रूढौ रूढिविषये क्तेन सह सप्तम्यास्तत्पुरुषो भवति । अवतप्तेनकुलस्थितम् | कृद्ग्रहणे प्रादिकारकपूर्वस्यापि ग्रहणमिति नकुलस्थितशब्देन सह समासः । इह चापल्यं गम्यते । भस्मनिहुतम्, प्रवाहेमूत्रितम्, उदकेविलीनम् । इह निष्फलता । एषु सप्तमी प्रायेण कृतीत्यलुक् ।। ९९ ।
१००. अहोरात्रावयवस्य अहरवयवस्य रात्रावयवस्य च सप्तम्यन्तस्य तेन सह तत्पुरुषो भवति । प्राकृतम्, मध्याह्नकृतम्, सायाह्नकृतम्, अपरालकृतम्, पूर्वरात्रकृतम्, प्रदोषपीतम्, निशीथक्रीडितम् । अवयवस्येति किम् ? दिने शयितः, रात्रौ जागरितः । कथं दिनकृतम्, रात्रिकृतम् ? तृतीयासमासेन सिद्धम् । दिनपक्वम्, रात्रिपक्वम्,