________________
६२८
कातन्त्रव्याकरणम् दिनशुष्कम्, रात्रिशुष्कम्, दिनसिद्धम्, रात्रिसिद्धम् इति पूर्वेण स्यादेव । क्तेनेत्येव प्रारूं स्नातवान्, प्रदोषे पीतवान् ।। १००।
१०१. वने बल्वजादीनि रूढौ इमान्यलुप्तसप्तमीकानि रूढिविषये सप्तमीतत्पुरुषसमासरूपाणि साधूनि भवन्ति । 'वनेबल्वजाः, वनेकशेरुकाः, अरण्येतिलकाः, कूपेपिशाचिकाः, मुकुटेकार्षापणम्, हलेद्विपदिका, दृषदिमासकः, गविष्ठिरः, युधिष्ठिरः' इत्यादि ।। १०१ ।
१०२. पात्रेसमितादीनि क्षेपे इमानि सप्तमीतत्पुरुषरूपाणि साधूनि भवन्ति क्षेपे । पात्रेसमिताः, पात्रेबहुलाः, गेहेनर्दी, गेहेनी, गेहेमेही, गेहेशूरः, गेहेपटुः, गेहेपण्डितः, गेहेक्षेपी, गेहेप्रगल्भः, गोष्ठेपटुः, गोष्ठेप्रगल्भः, मातरिपुरुषः । एतेऽलुक्सप्तमीकाः अवधारणात् क्षेपावगतिः, उदुम्बरकृमिः, उदुम्बरमशकः, अवटकच्छपः, कूपमण्डूकः, नगरकाकः, नगरवायसः, पिण्डीशूरः, कूपकच्छपः इत्यादिराकृतिगणोऽयम् । ये तु लक्षणान्तरसिद्धास्तेषां पुनः समासनिवृत्त्यर्थमिह पाठः ।। १०२।
१०३. काकार्थेन क्षेपविषये काकार्थेन सप्तम्यास्तत्पुरुषो भवति । तीर्थकाकः, तीर्थवायसः, तीर्थध्वाङ्क्षः । इहोपमानाच्चापल्यं गम्यते । क्षेप इत्येव - वृक्षे काकः ।।१०३ ।
१०४. ईषतो गुणस्वार्थेन गुणः स्वार्थः प्रवृत्तिनिमित्तं यस्य तेन सह ईषद् इत्यव्ययस्य तत्पुरुषो भवति । ईषत्पीतं वासः, ईषल्लवणः सूपः, ईषत्पिङ्गलं चक्षुः। गुणस्वार्थेनेति किम् ? ईषत्सौरभम्, ईषत्कालिमा, ईषत्पाकः, ईषत्पक्वमिति वाक्यमेव ।। १०४ ।
१०५. इवेनालोपश्च स्यादेः इवेन सहोपमानस्य तत्पुरुषो भवति, पूर्वस्य स्यादेर्लोपश्च. न भवति । अग्निरिव, वायुरिव, परमोच्चैरितिवद् अव्ययम् । क्रुङिव, सुगणिव, पचनिव | उत्तरपदे नित्यत्वाद्धिर्न स्यात्, समासे सति तद्धितान्तो वृत्त्यन्तरश्च स्यात् । अग्निरिवपाशम्, वायुरिवपाशम्, अग्निरिवसखः, वायुरिवसखः, अग्निरिवमन्यः, वायुरिवमन्यः, अग्निरिवगुः, वायुरिवगुः, अग्निरिवराजः, वायुरिवराजः | समासान्तोऽत् स्यात्, तत्कथं वाक्यमेवेति मत्वा चान्द्रेण प्रत्याख्यातमिदम् ।। १०५ |