________________
परिशिष्टम् - २
१०६. तत्र सामि स्वयमां तेन
एषमव्ययानां क्तेन सह तत्पुरुषो भवति । तत्रजातः कुमारः । सामीत्यर्द्धार्थम् - सामिपक्वाः शालयः, स्वयंधौतौ पादौ समासत्वाद् वृत्त्यन्तरं स्यात् ॥ १०६ | १०७. नित्यं प्रादेः प्रायेण
,
प्रादेर्बाहुलकेन नित्यं तत्पुरुषो भवति । प्राचार्यः, प्रवीर इति प्रगतत्वे प्रकृष्टत्वे च । दुःशल्ये च दुःशल्यम्, दुष्कण्टकमिति कृच्छ्रे । सुराजः, सुपन्थाः, अतिराजा, अतिपन्थाः, प्रशंसायाम् | आलवणम्, आरक्तम् इत्यादिकमीषदर्थे । आपिङ्गलमिति समन्ताद् भावे आङ्शब्दः । दुष्पुरुषः, दुर्जनः, दुष्पथम् विमत्स्यः, विजन्तुः, विपथमिति निन्दायाम् । विदेश इति दूरत्वे च विदिगिति रूढौ । अधिराजः, अधिपतिः, अधीश्वर इत्याधिक्ये । उपमात्रा, उपबन्धुः, उपपतिरित्यादि असाक्षाद् भावे । उत्पथम्, विहिमम्, विप्रियम्, निराकुलम्, निरुत्सुकमिति नञर्थे । अभिनवम्, व्याकुलम्, विपाण्डु, विलीनम्, समाकुलम्, समुत्सुकम्, परिकृशम्, परिपाण्डु, परिधूसरम्, पर्याकुलम्, इत्यतिशये । एवमन्यदपि शिष्टाचारतोऽनुसरणीयम् || १०७ | १०८. बहुव्रीहिरेकाधिकरणस्य
एकाधिकरणस्यैव प्रायेण बहुव्रीहिर्मन्तव्यः । क्व मा भूत् - जटाभिर्धनमस्य, भिक्षया धनमस्य, शिष्याय धनमस्य पुत्राय धनमस्य, नर्तनाद् धनमस्य, कर्षणाद् धनमस्य, मृतकस्य धनमस्य, ग्रामे चिरेण धनमस्य, अगारे चिरेण धनमस्य, प्रायाधिकारात् पञ्च गतवन्तोऽस्य, सप्त भुक्तवन्तोऽस्य इत्येकाधिकरणस्यापि असमासः। ‘उभयप्राप्तिः' इत्यादौ व्यधिकरणस्यापि स्यात् । जहाति अपैति स्वार्थोऽस्यां जहत्स्वार्था वृत्तिरित्येकाधिकरणस्यैव । जहातिरकर्मकोऽपीति मतम् । यथा - स्वार्थाद्धीनः । देवे वृष्टे गतो यः इति नेहान्यपदार्थता गतार्थस्यैव प्राधान्यात् । तथाहि देवे वृष्टे गतो यस्तस्मै देहीति वृष्ट्यनन्तरं गतायैव दीयते इति बहुव्रीहिरेव बहूनां नान्यः समास इति नियमार्थं बहुव्रीहिसूत्रे बहुग्रहणम् । तेन महन्नीलोत्पलम्, पट्वी श्यामा कन्यकेति न त्रिपदकर्मधारयः स्याच्चेद् आदिपदस्य आत्वं पुंवच्च न स्यात् समासान्तपदे तयोर्विधानात् । पञ्चानां छात्राणां कम्बलः, दक्षिणस्य वृक्षस्य शाखा, उत्तरस्य सौधस्यालिन्द इति न त्रिपदस्तत्पुरुषः ।
1
६२९
2