________________
कातन्त्रव्याकरणम्
६३०
परिपञ्चभ्यो ग्रामेभ्यः, बहिरुत्तरादगारादिति त्रिपदो नाव्ययीभावः । एवं चेद् बहुग्रहणं
द्वन्द्वे नियमव्युदासार्धमेव मन्तव्यम् ।
अन्यार्थग्रहणेऽमुष्य शक्तिः स्वाभाविकी मता ।
स्थितानामेव शब्दानामन्वाख्यानं हि संस्क्रिया ॥। १०८ । १०९. विशेषणस्य
पूर्वस्यैव विशेषणस्यैकाधिकरणेन सह बहुव्रीहिर्भवति । चित्रा गौरस्य चित्रगुः | एवं दीर्घजङ्घः । चित्रा जरती गौरस्य चित्राजरद्गुः, जरतीचित्रगुः, दीर्घास्थूलजङ्घः, स्थूलादीर्घजङ्घः । वचनं किम् ? गौश्चित्राऽस्य, जङ्घा दीर्घाऽस्य ||१०९ | ११०. गिरिप्रधानादयश्च
एते बहुव्रीहयोऽनुशिष्यन्ते । गिरिप्रधाना अवन्तयः, ब्राह्मणप्रधाना वर्णाः, स्त्रीप्रधाना गृहिणः, इन्द्रियप्रधाना नास्तिकाः, कुलालकर्तृको घटः, कुविन्दकर्तृकं वासः, तुरङ्गद्वितीयो राजन्यः, चूतादयो वृक्षाः, समुद्रान्ता भूः ब्राह्मणपूर्वका वर्णाः, धर्मपराः सन्तः, घृतोत्तरः सूपः कृष्णस्वामिका गोदुहः, वायुसखा वह्निरित्यादि ।। ११० ।
"
१११. अव्ययस्य च
अव्ययस्य च पूर्वस्य बहुव्रीहिर्भवति । गन्तुकामः उपरिपदः, अधोमुखः, उद्बाहुः, अस्तिक्षीरा, नास्तिक्षीरा गौः । निर्वातं गृहम्, अलवणो निर्लवणः सूपः । भिन्नाधिकरणत्वे सति व्यवस्थेयम् । सामानाधिकरण्ये तु यथायोगं वृत्तिः । प्राप्तं स्वर्येन तस्मै प्राप्तस्वरे महादानानि क्रियन्ते ॥ १११ ॥
११२. तृतीया सहस्य प्रायेण
सहशब्दस्याव्ययस्य तृतीयान्तेन सह प्रायेण बाहुलकेन पूर्वस्यान्यपदार्थे बहुव्रीहिर्भवति । सह पुत्रेण सपुत्रोऽधीते, सबन्धुराढ्यः, सशिष्यो गोमान् । त्रिपदोऽपि सह पञ्चभिरमात्यैः सपञ्चामात्यो राजा मन्त्रयते । इह पुत्रादिरध्ययनादिना सह युज्यते इति तुल्ययोगिता सहार्थ: । 'सपूर्वो दिनः सवत्सा गौः प्रसूते सभर्तृका गर्भिणी, सपितृका विधवा, सहर्षाः क्रीडन्ति, सशोकाः सीदन्ति, सभया वेपन्ते, सधनास्तृप्यन्ति । सकर्तृकं जगत् । सकर्मका धातवः' इत्यादौ विद्यमानार्थस्यापि
1