________________
परिशिष्टम् -२
६३१ तद्वत्तायामेव क्वचिद् विद्यमानार्थस्य तद्वत्ताया विरहे न भवति-सहान्धैः पश्यन्ति, सह मूखैजल्पन्ति, सह पङ्गुभिर्धावन्ति, सह बधिरैः शृण्वन्ति । इहान्धादीनां विद्यमानतैव सहार्थः । वचनं किम् ? 'अमा पुत्रेण, साकं पुत्रेण, सार्धं पुत्रेण, समं पुत्रेण' इत्यादिषु मा भूत् । पूर्वस्येत्येव पुत्रेण सहाधीते ।। ११२।
११३. षष्टीप्रथमयोरिवार्थे । अनयोः पूर्वयोरिवार्थे बहुव्रीहिर्भवति । उष्ट्रमुखः, इन्दुमुखी, पद्ममुखी । उष्ट्रस्येव मुखमस्य, इन्दुरिव मुखमस्या इति इवार्थोऽत्र बहुव्रीह्यभिधेयः ।। ११३ ।
११४. प्रायः सप्तम्या सप्तम्यन्तस्य पूर्वस्य प्रायेण बहुव्रीहिर्भवति । (कण्ठेकालः) कण्ठेमणिः, उरसिलोमा । केचिज्जातिवृत्तयः, केचिद् व्यक्तिवृत्तयः शब्दाः, धर्मवृत्तयः साधवः । प्रत्यये लुग् येषां ते प्रत्ययलुक इत्यादि ।। ११४ ।
११५. तयेन्द्रादेः तया सप्तम्या सह इन्द्वादेर्बहुव्रीहिर्भवति । 'इन्दुचूडः, इन्दुशेखरः, चन्द्रचूडः, चन्द्रशेखरः, चक्रपाणिः, शूलपाणिः, वज्रहस्तः, चक्रकरः, पद्मनाभः' इत्यादिराकृतिगणोऽयम् ।। ११५।
११६. सर्वनाम्नः पूर्वस्यैव सर्वनाम्नः एकाधिकरणेन सह बहुव्रीहिर्भवति । सर्वं शुक्लमस्य सर्वशुक्लः, उभयगौरः, पूर्वपीनः, भवत्सुभगः, तत्प्रथमः, तदन्यकम् इत्यादि ।।११६ ।
११७. तेन च संख्यायाः तेन सर्वनाम्नोऽन्येन च सह पूर्वस्यैव संख्यावाचिना बहुव्रीहिर्भवति । त्रिपूर्वः, पञ्चपरः। अन्येन च – 'पञ्चानुचरः, त्रिदण्डिकः, कतिसुरभिः, कतिकाणः, कतिकृपणः, बहुगौरो ग्रामः, एकशुक्लः, द्विहीनः' इति पूर्वेण च ।। ११७।
११८. प्रियस्योभयथा उभयथापूर्वस्य च प्रियस्यैकाधिकरणेन बहुव्रीहिर्भवति । प्रियगुडः, गुडप्रियः, प्रिययूयम्, युष्मप्रियाः ।। ११८।