________________
६३२
कातन्त्रव्याकरणम्
११९. प्रहरणस्य क्तेन प्रहरणस्योभयथा तेनैकाधिकरणेन सह बहुव्रीहिर्भवति । अस्युद्यतः, उद्यतासिः, कुन्तोल्लसितः, उल्लसितकुन्तः ।। ११९।।
१२०. जातिकालसुखादीनां च एषां चोभयथा एकाधिकरणेन क्तेन सह बहुव्रीहिर्भवति । 'व्याघ्रहतः, शुकजग्धः, जग्धशुकः, ओष्ठक्षती, क्षतौष्ठी, केशविलूनी, विलूनकेशी, मासक्षपितः, क्षपितमासः, सुखविरूढः, विरूढसुखः, कृच्छ्रजातः, जातकृच्छ्रः, कष्टस्मृतः, स्मृतकष्टः' इत्यादि ।। १२०।
१२१. अग्न्याहितादीनि अग्न्याहितादीनि उभयथा बहुव्रीहिरूपाणि साधूनि भवन्ति । अग्न्याहितः, आहिताग्निः, दन्तजातः, जातदन्तः. पुत्रजातः, जातपुत्रः, श्मश्रुजातः, जातश्मश्रुः, घृतपीतः, पीतघृतः, तैलपीतः, पीततैलः, विषपीतः, पीतविषः, मद्यपीतः, पीतमद्यः, शीर्षच्छिन्नः, छिन्नशीर्षः, भार्योढः, ऊढभार्यः । अग्न्यादीनामेवाहितादिभिराहितादीनामेवाग्न्यादिभिरित्युभयथापि बहुव्रीहिरिति नियमात् । 'हुताग्निः, आहितानलः' इति पूर्वस्यैव क्तस्य बहुव्रीहिरिति मतम् ।। १२१।
१२२. गडुकण्ठादौ सप्तम्याः गडुकण्ठादौ सप्तम्यन्तस्योभयथा बहुव्रीहिर्भवति । गडुः कण्ठेऽस्य गडुकण्ठः, कण्ठेगडुः । एवं गडुशिराः, शिरसिगडुः ।। १२२ ।
१२३. गुणिनि संख्ययाऽस्याः पूर्वस्याः सुजर्थे गुणिवृत्तया संख्यया सह पूर्वस्याः संख्यायाः सुजथे बहुव्रीहिर्भवति । द्विर्दशा गावः । एवं त्रिदशाश्छात्राः । चतुर्दशा भुजगदन्ताः । सुजर्थमिह समासोऽभिधत्ते । गुणिनीति किम् ? द्विर्विंशतिः खगानाम्, त्रिःशतं गवाम् । पूर्वस्या इति किम् ? त्रिौं, चतुस्त्रयः ।। १२३।
१२४. संशये च गुणिनि वृत्तया संख्यया सह संशये चार्थे पूर्वस्याः संख्याया बहुव्रीहिर्भवति । द्वौ वा त्रयो वा द्वित्राः साधवः । एवं त्रिचतुराः, पञ्चषाः । संशयं समासोऽभिधत्ते ।