________________
परिशिष्टम् -२ गुणिनीत्येव - नवतिर्वा शतं वा वृक्षाणाम् । पूर्वस्या इत्येव - त्रयो वा द्वौ वा, चत्वारो वा त्रयो वा ।। १२४।
१२५. षष्ठ्याऽव्ययस्य षष्ठ्यन्तया गुणिनि. वृत्तया सङ्ख्यया सहाव्ययस्य बहुव्रीहिर्भवति । उपगता दशानाम् उपदशाः पशवः, उपविंशाः शकुनयः । सामीप्यार्थप्राधान्ये तु 'उपदशम्' इत्यव्ययीभावः । गुणिनीत्येव - 'उपगता विंशत्याः, उपगताः शतस्य' इत्यर्थे मा भूत् ।। १२५।
१२६. आसन्नादूराधिकानां च । आसन्नादूराधिकानां षष्ट्यन्तया गुणिनि वृत्तया संख्यया सह एषां बहुव्रीहिभवति । आसन्ना दशानाम् आसन्नदशाः गावः । एवम् अदूरदशाः, अधिकदशाः । एते संख्यया बहुव्रीहयो बह्वर्थविषयाः सङ्ख्याः प्रकाशन्ते । बाहुलकाद् गुणिनीत्येव - आसन्ना विंशत्याः, अधिकाः शतस्य ।। १२६ ।
१२७. केशचूडादिश्च केशचूडप्रभृतिश्च बहुव्रीहौ निपात्यते । केशपुञ्जश्चूडा अस्य केशचूडः, हेमविकारोऽलंकारोऽस्य हेमालंकारः, उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः, प्रपतितानि पर्णान्यस्य प्रपर्णः, न विद्यमानः पुत्रोऽस्य अपुत्रः । 'केशपुअचूडः' इत्यादिनिवृत्त्यर्थं वचनम् । ये चासंगृहीताः शिष्टाचारेषु बहुव्रीहयो दृश्यन्ते त इह मन्तव्याः ।। १२७।
१२८. विदिक् विदिगर्थः समासोऽत्र विदिग् इत्यभिधीयते । स तु पूर्वादिनारभ्यस्तथेति ख्यातिसूचनात् ।
विदिक्ष्यर्थेषु पूदिरेवमेष स्मृतो विधिः। विना वाक्यविशेषेण विशेषावीदृशौ कुतः॥ दक्षिणस्याश्च पूर्वस्या दिशोऽधस्तादुपर्यपि । उदीच्याश्च प्रतीच्याश्च मध्यमत्राप्यसौ भवेत् ॥ कथं चाभ्यां विशेषाभ्यां वर्तते कर्मधारयः। कृते चास्मिन् बहुव्रीही दिशां वेत्यपि सुस्थितम् ।।१२८॥