________________
कातन्त्रव्याकरणम्
१२९. द्वयोर्द्वन्द्वे पूर्वम् अधिकारोऽयम् || १२९।
१३०. लघुमात्रस्वरम् द्वयोर्द्वन्द्वे लघुमात्रस्वरं पूर्वं भवति । तिलमाषम्, कुशवेत्रम्, मलगर्मुत्, करकूर्चम्, करनासम्, मलयपञ्चालाः, कृपणदरिद्रौ, विधुभानू, नलिनमृणालम्, अचलपयोधी, शिखरिसमुद्रौ, कुमुदकलारम्, वृककाकम्, बककङ्कम्, हलहालम्, मुकुटकेयूरम्, जलदपर्वतौ । मात्रग्रहणं किम् ? पालङ्क्यामूलके, काकोलीचन्दनम् । द्वयोरिति किम् ? वृक्षबककाकाः ।। १३०।
१३१. स्वरायदन्तम् द्वयोर्द्वन्द्वे स्वरादि यदकारान्तं तत् पूर्वं भवति । उष्ट्रखरम्, उष्ट्रशशम्, इन्द्रवातौ, अर्कवेधसौ । द्वयोरिति किम् ? चन्द्रार्कवेधसः ।।१३१ ।
१३२. संख्या चाल्पा द्वयोर्द्वन्द्वे याऽल्पा संख्या सा पूर्वं निपतति । एकादश, द्वादश, नवतिशतम्, शतसहस्रम् । अष्टादश, पञ्चशतानि ।। १३२।
१३३. वाऽर्थधर्मादौ अर्थधर्मादौ द्वन्द्वे स्वराद्यदन्तं पूर्वं वा भवति । 'अर्थधर्मो धर्मार्थों, अर्थकामौ, कामार्थो, अर्कचन्द्रौ, चन्द्रार्को, अन्तादी, आद्यन्तौ, अर्थशब्दौ, शब्दार्थो, इन्द्राग्नी, अग्नीन्द्रौ' इत्यादि ।। १३३।
१३४. असखिरग्निः द्वयोर्द्वन्द्वे सखिभिन्नम् अग्निसंज्ञकं पूर्वं भवति । दधिघृतम्, अग्निवातौ, पाणिपादम्, भानुचन्द्रौ, केलियुद्धे, गृष्टिच्छागम्, सूनुभार्ये, वेणुकाण्डम्, रात्रिसन्ध्ये, करेणुकुञ्जरौ, पाटलिचम्पकौ । असखिरिति किम् ? सुतसखायौ, सखिसुतौ ।। १३४ ।
१३५. वा त्वग्निसमीरणादौ अग्निसमीरणादौ द्वन्द्वेऽग्न्यन्तं पूर्वं निपतति वा । 'अग्निसमीरणौ, समीरणाग्नी, वाय्वाकाशौ , आकाशवायू, मधुसर्पिषी, सर्पिर्मधुनी, वृद्धिगुणौ, गुणवृद्धी, वृद्धिक्षयौ,